This page has been fully proofread once and needs a second look.

VIRATA PARVA
 
213
 
'अयं कुरुणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।

य एष वललो भीमो भीमवेगपराक्रमः ।

यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप ।

गोसंख्यस्सहदेवश्च सैरन्ध्री द्रौपदी प्रिया ॥

"You who inflict woes on your enemies !

this is the chief of the Kura house, the

son of Kunti, Yudhisthira ; this Valala is

Bhima of terrible force and strength; this,

who was your groom, is Nakula ; the

cowherd is Sahadeva; and Sairandhri,

our beloved wife, Draupadi."
 

 
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ।

तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान् ।

धनञ्जयं परिष्वज्य युधिष्ठिरमथाब्रवीत् ॥
 

Then, Virata's son, Uttara, told Virata

of Arjuna's exploits. Hearing those words

of his son, the valorous king of the

Matsyas, embraced Arjuna and said to

Yudhisthira :
 

 
'दिष्ट्या भवन्तस्संप्राप्तास्सर्वे कुशलिनो वनात् ।

उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः ।

अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥'