This page has been fully proofread once and needs a second look.

196
 
THE MAHABHARATA
 
युधिष्ठिरः-

'आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ।

कुन्ती चैव तु माद्री च द्वे भार्ये तु पिर्तुमम ।

उभे सपुत्रे स्यातां वै विशेषो नास्ति मे तयोः ॥'
 

Yudhisthira-

""
 
I desire to be good (by making no

difference); (therefore) Yaksha, let Nakula

come to life ; my father had two wives,

Kunti and Madri ; may both ( of them)

be with their sons; I do not make

any difference between them.
 

 
यक्षः
 

'यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।

तस्माचेत्ते भ्रातरस्सवेंर्वे जीवन्तु भरतर्षभ ॥

अहं ते जनकस्तात धर्मो मृदुपराक्रम ।

आरणेयमिदं तस्य ब्राह्मणस्य हृतं मया ॥

वर्षेषं त्रयोदशमिदं मत्प्रसादात्कुरूद्हाः ।

विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥

यद्वस्संकल्पितं रूपं तादृशं धारयिष्यथ ।

अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छ ॥ '