This page has not been fully proofread.

SABHA PARVA
 
'त्वं प्रातिकामिन् द्रौपदीमानयस्व
न ते भयं विद्यते पाण्डवेभ्यः ।
क्षत्ता ह्ययं विबदत्येव भीतो
न चास्माकं वृद्धिकामस्सदैव ॥ '
 
"You, Pratikamin, fetch Draupadi ; you
have nothing to fear from the Pandavas;
afraid (of the Pandavas), this Vidura
speaks against us, and he is never our
well-wisher."
 
एवमुक्तः प्रातिकामी स सूतः
समासदन्महिषीं पाण्डवानाम् ॥
 
6
 
Thus told, that charioteer Pratikami
approached the queen of the Pandavas.
 
प्रातिकामी-
125.
 
युधिष्ठिरो द्यूतमदेन मत्तो
दुर्योधनो द्रौपदि त्वामजैषीत् ।
 
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेइम
नयामि त्वां कर्मणे याज्ञसेनि ॥