This page has not been fully proofread.

MADHURAVIJAYAM
 
क्षतानि यान्यस्य शरैः शरीरे चकार वीरस्य तुलुष्कवीरः ।
वितेनिरे तानि नखाङ्कशङ्कां जयश्रियो भोगसमुत्सुकायाः ॥
 
125
 
उदग्रमग्रे यत्रनाधिभर्तुः साक्षात्कलेर्मोलिमिवाशुगेन ।
 
स मञ्जु सार्धं जयकाङ्क्षितेन भ्वाङ्क्षध्वजं ध्वंसयति स्म धन्वी ॥
 
अमर्पितस्याथ पृषत्कवर्षं विमुञ्चतो विद्विषतः शरेण ।
स कार्मुकज्यामलनात् तुलुष्कराज्यश्रियो मङ्गलसूत्रकल्पाम् ॥
विहाय शार्ङ्ग धनुरिद्धरोपस्तुलुक[वीरस्त*]रवारिनुप्रम् ।
तुरङ्गपर्याणनिबद्धवर्धाविलम्बि(भिः?नं) सत्वरमुज्जाहार ।
 
अथाग्रहीत् कम्पनृपस्तमेव कौक्षेयकं काल[करालरूपम् ।
व्या *] [पादनार्थ यवनेश्वरस्य यः प्रेषितः प्राक् कलशोद्भवेन ॥
विषच्छटाधूम्ररुचिर्नृपस्य करामधूता करवाललेखा ।
[जिदेव रेजे"] यवनाधिराजप्राणानिलाञ् जिग्रसिषोर्भुजाहेः ॥
स वञ्चयंस्तत्तरवारिधारां धाराविशेषप्रवणौपवाह्यः ।
अशातयत्तस्य शिरो निमेष[][दने] *]न कर्णाटकुलप्रदीपः ॥
अज्ञात
से वोचित चाटुवाद तुलुष्कसाम्राज्यकृताभिषेकम् ।
दिवौकसामप्यकृतप्रणामं भूमौ सुरत्राणशिरः पपात ॥
च्युतेऽपि शीषं चलिताश्ववल्गानियन्त्रणव्यापृतवामपाणिम् ।
प्रतिप्रहारप्रसृतान्यहस्तं वीरः कबन्धं द्विषतोऽभ्यनन्दीत् ॥
मानोन्नते कम्पनृपस्य मौलौ पपात दिव्यद्रुमपुष्पवृष्टिः ।
स्वयंवराभ्युत्सुकराजलक्ष्मी विमुक्तमुक्ताक्षतजालकल्पा ॥
 
इयानेव तालपत्रादर्शः समुपलब्धः।