This page has not been fully proofread.

124
 
P
 
MADHURAVIJAY AM
 
[तस्मि *]न्निति व्याप्तहेतिजाते पर पतन्त्यः परिपन्थिसेनाः ।
कल्पक्षयोदचिपि हव्यवाहे महाम्बुधेराप इवाशु ने[शुः] ॥
 
न जामदग्न्येन न राघवेण तथा न भीमेन न चार्जुनेन ।
आपादितस्तेन यथा समीके हर्षो महर्षेः कलहप्रियस्य ॥
 
ततस्तुलुष्कान युधि [कान्दिशी ]कानालोक्य विष्फारितघोरशाङ्गः ।
कम्पक्षितीन्द्रं यवनाधिराजः प्रत्यग्रहीद वृत्र इवामरेन्द्रम् ॥
 
तं वीरपाणाधिकपाटलाक्ष ललाटलक्ष्यञ्जुकुटीकरलम् ।
मदस्य रोषस्य च देहबन्ध संभेदमाशङ्कत वीरवर्गः ॥
 
निरायता तस्य तुरङ्गवेगा वेणिर्मणिश्रेणिमती चकाशे ।
अमर्पवर्हेज्र्ज्वलनोन्मुखस्य धूमच्छटेव स्फुरितम्फुलिङ्ग ॥
आम्फाल्यमानस्य च तेन गाढं शार्ङ्गस्य मौनिदश्चकार ।
चिरात् परित्यज्य पमुञ्चलत्या जयश्रियो सुपुरघोषशङ्काम् !!
पराक्रमाधःकृतचोळपाण्डचं वल्लालसम्पल्लतिकाकुठारम् ।
रणोन्मुखं कम्पनृपोऽभ्यनन्दीइ वीरः सुरत्राणमुदप्रशौर्यः ॥
आकर्णमाकृष्टशरासनौ तौ मिथः किरन्तौ विशिखानसङ्ख्यान् ।
वीरौ स्ववाहुद्रविणानुरूपमायोधनं मानघनौ व्यघाताम् ॥
बाणा निरस्ता यवनेन तस्मिन्नपाङ्गपाता इव वीरलक्ष्म्याः ।
कम्पेश्वरेणाप्यभिपारसीकं शराः कटाक्षा इव कालरात्रेः ॥
 
स केरलप्राणमरुद्भुजङ्गान् वन्यावनीन्द्रद्रुमदाववढीन् ।
अन्ध्रान्धकारक्षयतिग्मभासो बाणानमुञ्चद् यवने नरेन्द्रः ॥
 
इतः परं पत्रद्वयं निर्लेख दृश्यते ।