This page has been fully proofread once and needs a second look.

124
 
P
 
MADHURAVIJAY AM
 
[तस्मि *]न्निति व्याप्पृतहेतिजाते परापतन्त्यः परिपन्थिसेनाः ।

कल्पक्षयोदर्चिपिषि हव्यवाहे महाम्बुधेराप इवाशु ने[शुः*] ॥
 

 
न जामदग्न्येन न राघवेण तथा न भीमेन न चार्जुनेन ।

आपादितस्तेन यथा समीके हर्षो महर्षेः कलहप्रियस्य ॥
 

 
ततस्तुलुष्कान् युधि [कान्दिशी *]कानालोक्य विष्फारितघोरशार्ङ्गः ।

कम्पक्षितीन्द्रं यवनाधिराजः प्रत्यग्रहीद वृत्र इवामरेन्द्रम् ॥
 

 
तं वीरपाणाधिकपाटलाक्षं <error>ललाटलक्ष्यञ्जुकुटीकरलम्
</error><fix>ललाटलक्ष्यञ्जुकुटीकरालम्</fix> ।
मदस्य रोषस्य च देहबन्धं संभेदमाशङ्कत वीरवर्गः ॥
 

 
निरायता तस्य तुरङ्गवेगा वेणिर्मणिश्रेणिमती चकाशे ।

अमर्पवर्हेज्षवह्नेर्ज्वलनोन्मुखस्य धूमच्छटेव स्फुरितम्स्फुलिङ्ग ॥
गा ॥
 
म्स्फाल्यमानस्य च तेन गाढं शार्ङ्गस्य <error>मौर्वीनिदश्चकार
</error><fix>मौर्वी निनदश्चकार</fix> ।
चिरात् परित्यज्य <error>पमुञ्च्चलत्या</error><fix>तमुच्चलन्त्या</fix> जयश्रियो सुनूपुरघोषशङ्काम् !!

 
पराक्रमाधःकृतचोपाण्डचंड्यं वल्लालसम्पल्लतिकाकुठारम् ।

रणोन्मुखं कम्पनृपोऽभ्यनन्दीद् वीरः सुरत्राणमुदप्ग्रशौर्यः ॥

 
आकर्णमाकृष्टशरासनौ तौ मिथः किरन्तौ विशिखानसङ्ख्यान् ।

वीरौ स्ववाबाहुद्रविणानुरूपमायोधनं <error>मानघनौ</error><fix>मानधनौ</fix> व्यघाताम् ॥

 
बाणा निरस्ता यवनेन तस्मिन्नपाङ्गपाता इव वीरलक्ष्म्याः ।

कम्पेश्वरेणाप्यभिपारसीकं शराः कटाक्षा इव कालरात्रेः ॥
 

 
स केरलप्राणमरुद्भुजङ्गान् वन्यावनीन्द्रद्रुमदाववढीन् ।
ह्नीन् ।
अन्ध्रान्धकारक्षयतिग्मभासो बाणानमुञ्चद् यवने नरेन्द्रः ॥
 

 
*
इतः परं पत्रद्वयं निर्लेखं दृश्यते ।