2023-02-17 20:22:26 by ambuda-bot
This page has not been fully proofread.
E
MADHURAVIJAYAM
द्विषा सरोषेण पृषत्कर्निषूदितः कोऽप्यमरत्वमेत्य ।
चकार तस्योपरि पुष्पवर्षं सहर्षमुद्घोषित चाटुवादः ॥
कुन्तेन कश्चित् द्विषता विभिन्नस्तथैव संश्लेषममुप्य यातः ।
भिन्दन्नुरस्तेन चमत्कृतोऽभूद् गुणेषु को मत्सरमादधाति ॥
चिराय कौचित् कलहायमानावन्योन्यकौक्षेयककृत्तशोर्षौ ।
विमुक्तदेहौ तदनुक्षणेन ससौहृदौ दिव्यपुरीमयाताम् ॥
सङ्ग्रामबन्यामभितश्चरन्तो दर्पोद्धताः केचन राजसिंहाः ।
प्रत्यर्थिनां पार्थिवकुञ्जराणां शिरांस्यभिन्दन्नखरैः[खरायैः * ॥]
।
....स्तस्य विरोधियोधान् दृष्टा जहासेव पलायमानान् ॥
एकप्रहारेण सङ्कटानामाधोरणानां करिणां च देहैः ।
द्विधा विभिन्नैरभितो बिवेक्तुमीपत्करास्तस्य विमर्दमार्गः ॥
कुम्भेषु भिन्दन् नृपतिर्द्विपेन्द्रान् मुक्ताफलैः शर्करिलान्तराभिः ।
प्रावर्तयद् रक्ततरङ्गिणीभिः परश्शताः संयति ताम्रपर्णीः ॥
तेन द्विपास्तोमरिणा विभिन्नाः कुंभस्थलैरुज्झितमोक्तिकौघैः ।
क्रौञ्चस्य जह्वर्गुहशक्तिघातप्रकीर्णहंसप्रकरस्य शोभाम् ॥
रंहस्विनः स्वाभिमुखान् क्षितीन्द्रो मृगान् नखाग्रेण यथा तरक्षुः ।
प्रसह्य वक्षस्सु युधि प्रवीरान् क्षुण्णानकार्षीच्छुरिकामुखेन ॥
शूरस्तथा प्राहृत मुद्द्वारेण शिरस्त्रवन्ति द्विषतां शिरांसि ।
यथा विनिर्यन्नयनानि तानि मङ्क्षु न्यमाङ्क्षुः स्वशरीर एव ॥
123