This page has not been fully proofread.

S
 
NO SON
 
MADHURAVIJAYAM
 
अनिदंप्रथमो हि धार्यतेऽसौ भवतान्यैर्मनसाप्यधारणीयः ।
भुवनत्रयरक्षणैकदीक्षाविधिशंसी कठकः ( पदा? करा )म्बुजेन ॥
 
चल्वेणिभिरुल्वणारुणाक्षैर्विपुलश्मश्रुभिरात्तसिंहनादैः ।
 
विकट अकुटीकरालफास्त्वर माणस्तृणगात् (?) तुलुष्कशैषीः ॥
 
प्रसतु प्रथनाह्वये दिनादौ प्रथमानो भवतः प्रतापसूर्यः ।
मधुपानमदप्रदोपरूढं यवनीनां स्मितचन्द्रिका विकासम् ॥
 
अविनीतिदवानलानुबन्धादधिकोन्मीलदधर्मधर्मजातम् ।
निहताहितलोहिताम्बुधैर्नृप ! निर्वापय तापमुर्वरायाः ॥
 
परिपन्थिकबन्धकन्धरान्तःस्रुतरक्तासवपूरपारणाभिः ।
कटपूतनभृतयातुधानानभितस्तर्पयतात् तवॆष खड्गः ॥
 
दुरितैकपरं तुलुष्कनाथं द्रुतमुखाय जगत्तूयैकशल्यम् ।
प्रतिरोपय रामसेतुमध्ये विचयस्तम्भशतानि बाहुशालिन् ! ।
 
त्वयि नाथ ! नियन्तृतां प्रपन्ने धृतवेगा स्थिरसेतुबन्धनेन ।
प्रथयत्वनुकूलया नलीलामचिरेणैव कवेरजाकरेणुः ॥
 
[इति श्रीगङ्गादेव्या विरचिते मधुराविजय.
 
नाम्नि वीरकम्परायचरिते
अष्टमः सर्गः । *
 
इतः परं दश पत्राणि तालपत्रादर्शाद् विभ्रष्टानि ।
 
121