This page has been fully proofread once and needs a second look.

S
 
NO SON
 
MADHURAVIJAYAM
 
अनिदंप्रथमो हि धार्यतेऽसौ भवतान्यैर्मनसाप्यधारणीयः ।

भुवनत्रयरक्षणैकदीक्षाविधिशंसी कठकः ( पदा? करा करा)म्बुजेन ॥
 

 
ल्वेणिभिरुल्वणारुणाक्षैर्विपुलश्मश्रुभिरात्तसिंहनादैः ।
 

विकटभ्रुकुटीकरालफास्त्वर लैस्त्वरमाणस्तृणगात् (?) <error>तुलुष्कर्शैषीः</error><fix>तुलुष्कशीर्षैः</fix>
 
प्

 
ग्
रसतु प्रथनाह्वये दिनादौ प्रथमानो भवतः प्रतापसूर्यः ।

मधुपानमदप्रदोरूढं यवनीनां स्मितचन्द्रिका विकासम् ॥
 

 
अविनीतिदवानलानुबन्धादधिकोन्मीलदधर्मधर्मजातम् ।

निहताहितलोहिताम्बुधैवर्षैर्नृप ! निर्वापय तापमुर्वरायाः ॥
 

 
परिपन्थिकबन्धकन्धरान्तःस्रुतरक्तासवपूरपारणाभिः ।

कटपूतनभृभूतयातुधानानभितस्तर्पयतात् तवॆवैष खड्गः ॥
 

 
दुरितैकपरं तुलुष्कनाथं द्रुतमुत्खाय जगत्तूत्रयैकशल्यम् ।

प्रतिरोपय रामसेतुमध्ये <error>विचयस्तम्भशतानि</error><fix>विजयस्तम्भशतानि</fix> बाहुशालिन् !
 

 
त्वयि नाथ ! नियन्तृतां प्रपन्ने धृतवेगा स्थिरसेतुबन्धनेन ।

प्रथयत्वनुकूलया नलीलामचिरेणैव कवेरजाकरेणुः ॥
 

 
[इति श्रीगङ्गादेव्या विरचिते मधुराविजय.
 
-
नाम्नि वीरकम्परायचरिते

अष्टमः सर्गः । *
 

 
*
इतः परं दश पत्राणि तालपत्रादर्शाद् विभ्रष्टानि ।
 
121