This page has not been fully proofread.

A
 
120
 
MADHURAVIJAYAM
 
प्रतिबिम्बितदीपकान्तिमन्तः स्फुटतापिञ्छतरुप्रसूननीलम् ।
नवमम्बुधरं विडम्बयन्तं जठरोज्जृम्भित वैद्युत प्रकाशम् ॥
 
तमरातिनरात्रिनाथनारीनयनाम्भः कणपातहेतुभूतम् ।
प्रभुरुन्मिपितस्वरोषवेरधिकोद्दामममंस्त धूमदण्डम् ॥
 
(कलापकम् i)
 
प्रणयागतचोलपाण्ड्यलक्ष्मीश्रवणेन्दीवरमालिकायमानम् ।
विरचय्य पुरः कृपाणमेषा पुनरप्याह पुरन्दराभमेनम् ॥
 
नरनाथ ! पुरा कृपाणमेनं विरचव्याखिलदेवतायुधांशैः ।
उपदीकृतवान् पिनाकपाणेदनुजानां विजयाय विश्वकर्मा ॥
अमुमुग्रतपःकुतप्रसादः प्रददौ पाण्डवनृपाय सोऽपि देवः ।
यमुपेत्यं चिराण तस्य वंश्याः पृथिवीमप्रतिशासनामशासन् ॥
 
अथ कालवशेन पाण्ड्यवंश्यान् गतवीर्यानवधार्य कुम्भजन्मा ।
मनुजेश्वर ! मण्डलाग्रमेन भवते प्रेषितवान् महाभुजाय ॥
 
अमुना युधि दुःसहं महः स्यात् तव नैसर्गिकसाहसप्रवृत्तेः ।
ध्रुवमूष्मणि दारुणो दवाग्निः किमुतोच्चण्डसमीरसंस्तवेन ॥
अधिसङ्गमस्य च प्रभावाद् भविता ते न कदापि सत्वसादः ।
असितोमरचक्रचापमुख्यैर्द्विषदस्त्रैर्वपुषो न चाभिषङ्गः ॥
 
अमुमात्रकरालरश्मिपालीरचितालीकत टिच्छटा विलासम् ।
धुवतस्तव चेष्टितु पुरस्तान्न कृतान्तोऽपि भवत्यलं किमन्यैः ॥
 
अमुनाशु विशस्य दक्षिणस्यां मधुरायां पुरि कंसवन्नृशंसम् ॥
यवनाधिपतिं बलोत्तरस्त्वं विदधीथाः स्फुटमच्युतावतारम् ॥