This page has been fully proofread once and needs a second look.

A
 
120
 
MADHURAVIJAYAM
 
प्रतिबिम्बितदीपकान्तिमन्तः स्फुटतापिञ्छतरुप्रसूननीलम् ।

नवमम्बुधरं विडम्बयन्तं जठरोज्जृम्भित वैद्युत प्रकाशम् ॥
 

 
तमरातिनरात्रिधिनाथनारीनयनाम्भः कणपातहेतुभूतम् ।

प्रभुरुन्मिपिषितस्वरोषवेवह्नेरधिकोद्दामममंस्त धूमदण्डम् ॥
 

 
(कलापकम् i)
 

 
प्रणयागतचोलपाण्ड्यलक्ष्मीश्रवणेन्दीवरमालिकायमानम् ।

विरचय्य पुरः कृपाणमेषा पुनरप्याह पुरन्दराभमेनम् ॥
 

 
नरनाथ ! पुरा कृपाणमेनं विरचव्य्याखिलदेवतायुधांशैः ।

उपदीकृतवान् पिनाकपाणेर्दनुजानां विजयाय विश्वकर्मा ॥

 
<error>
अमुमुग्रतपःकुतप्रसादः</error><fix>अमुमुग्रतपःकृतप्रसादः</fix> प्रददौ पाण्डवनृपाय सोऽपि देवः ।

यमुपेत्यं चिरा तस्य वंश्याः पृथिवीमप्रतिशासनामशासन् ॥
 

 
अथ कालवशेन पाण्ड्यवंश्यान् गतवीर्यानवधार्य कुम्भजन्मा ।

मनुजेश्वर ! मण्डलाग्रमेनं भवते प्रेषितवान् महाभुजाय ॥
 

 
अमुना युधि दुःसहं महः स्यात् तव नैसर्गिकसाहसप्रवृत्तेः ।

ध्रुवमूष्मणि दारुणो दवाग्निः किमुतोच्चण्डसमीरसंस्तवेन ॥

 
अधिसङ्गमस्य च प्रभावाद् भविता ते न कदापि सत्वसादः ।

असितोमरचक्रचापमुख्यैर्द्विषदस्त्रैर्वपुषो न चाभिषङ्गः ॥
 

 
अमुमास्त्रकरालरश्मिपालीरचितालीकत टिच्छटा विलासम् ।

धुवतस्तव चेष्टितु पुरस्तान्न कृतान्तोऽपि भवत्यलं किमन्यैः ॥
 

 
अमुनाशु विशस्य दक्षिणस्यां मधुरायां पुरि कंसवन्नृशंसम् ॥

यवनाधिपतिं बलोत्तरस्त्वं विदधीथाः स्फुटमच्युतावतारम् ॥