This page has not been fully proofread.

MADHURAVIJAYAM
 
परितस्तततन्तुवायतन्तुव्यतिषङ्गाज्जनितानि जालकानि ।
पुरगोपुरसालभज्जिकानां दधते चीनपटावगुण्ठनत्वम् ॥
 
हिमचन्दनवारिसेकशीतान्यभवन् यानि गृहाङ्गणानि राज्ञाम् ।
हृदयं मम खेदयन्ति तानि द्विजचन्दीनयानाम्बुदूषितानि ॥
 
न तथा कटुघूत्कृताद् व्यथा मे हृदि जीर्णोपत्रनेषु धूकलोकात् ।
परिशीलित पारसीकवाग्भ्यो यवनानां भवने यथा शुकेभ्यः ॥
 
स्तनचन्दन पाण्डु ताम्रपर्ण्या स्तरुणीनामभवत् पुरा यदम्भः :
तदसूग्मिरुपैति शोणिमानं निहतानामभितो गवां नृशंसः ॥
 
सुवते न यथापुरं वसूनि क्षितयो वर्षति पूर्ववन्न शक्रः ।
शमनोऽपि जनं नयत्यकाण्डे विषयेऽस्मिन् यवनैर्हतावशिष्टम् ॥
 
श्वसितानिलशोषिताधराणि श्लथशीर्णायतचूर्णकुन्तलानि ।
बहुबाप्पपरिप्लुतेक्षणानि द्रभिडानां वदनानि वीक्ष्य दूये ॥
 
श्रुतिरस्तमिता नयः प्रलीनो विरता धर्मकथा च्युतं चरित्रम् ।
सुकृतं गतमाभिजात्यमस्तं किमिवान्यत् कलिरेक एव धन्यः ॥
 
इति सा निखिलं निवेद्य राज्ञे यवनानां जनगर्हितं चरित्रम् ।
अतिभीषणमात्मनः प्रभावात् क्रमपि प्रादुरभावयत् कृपाणम् ॥
 
अथ तं कलधौनकोश[तः सा क ]रलमत्सरुरु चखान खड्गम् ।
अचिरोज्झितकञ्चकानुबन्धस्फुटकालोरगभोगसाम्यमाजम् ॥
 
क्षयकालकरालभद्रकालीगलकालागरुकर्द[मायमा*]नैः ।
महसां प्रसरैदीपहार्यं किमपि ध्वान्तमिव प्रकाशयन्तम् ॥
 
119