This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
परितस्तततन्तुवायतन्तुव्यतिषङ्गाज्जनितानि जालकानि ।

पुरगोपुरसालभज्ञ्जिकानां दधते चीनपटावगुण्ठनत्वम् ॥
 

 
हिमचन्दनवारिसेकशीतान्यभवन् यानि गृहाङ्गणानि राज्ञाम् ।

हृदयं मम खेदयन्ति तानि द्विजन्दीनयानाम्बुदूषितानि ॥
 

 
न तथा कटुघूत्कृताद् व्यथा मे हृदि जीर्णोपत्रनेषु धूघूकलोकात् ।

परिशीलित पारसीकवाग्भ्यो यवनानां भवने यथा शुकेभ्यः ॥
 

 
स्तनचन्दन पाण्डु ताम्रपर्ण्या स्तरुणीनामभवत् पुरा यदम्भः :

तदसूग्मिभिरुपैति शोणिमानं निहतानामभितो गवां नृशंसः ॥
 
सैः ॥
 
सुवते न यथापुरं वसूनि क्षितयो वर्षति पूर्ववन्न शक्रः ।

शमनोऽपि जनं नयत्यकाण्डे विषयेऽस्मिन् यवनैर्हतावशिष्टम् ॥
 

 
श्वसितानिलशोषिताधराणि श्लथशीर्णायतचूर्णकुन्तलानि ।

बहुबाप्ष्पपरिप्लुतेक्षणानि द्रभिमिडानां वदनानि वीक्ष्य दूये ॥
 

 
श्रुतिरस्तमिता नयः प्रलीनो विरता धर्मकथा च्युतं चरित्रम् ।

सुकृतं गतमाभिजात्यमस्तं किमिवान्यत् कलिरेक एव धन्यः ॥
 

 
इति सा निखिलं निवेद्य राज्ञे यवनानां जनगर्हितं चरित्रम् ।

अतिभीषणमात्मनः प्रभावात् <error>क्रमपि</error><fix>कमपि</fix> प्रादुरभावयत् कृपाणम् ॥
 

 
अथ तं कलधौकोश[तः सा क *]रलग्नत्सरुरु च्चखान खड्गम् ।

अचिरोज्झितकञ्चुकानुबन्धस्फुटकालोरगभोगसाम्यमाभाजम् ॥
 

 
क्षयकालकरालभद्रकालीगलकालागरुकर्द[मायमा*]नैः ।

महसां <error>प्रसरैदीपहार्यं</error><fix>प्रसरैरदीपहार्यं</fix> किमपि ध्वान्तमिव प्रकाशयन्तम् ॥
 
119