This page has not been fully proofread.

अथाष्टमः सर्गः ।
 
व्यात्रपुरीति सा यथार्थम् ॥
 
अधिरङ्गमवाप्तयोगनिंद्र हरिमुद्वेजयतीति जातमीतिः ।
पतितं मुहुरिष्टकानिकायं फणचक्रेण निवारयत्यहीन्द्रः ॥
 
.नुचूर्णदूर्णनाम वनवेतण्डविमर्दिनीमवस्थाम् ।
विरतान्यपरिच्छदमपञ्चो भजते हन्त । गजप्रमाथिनाथः ॥
घुणजबकवाटसम्पुटानि स्फुटदूर्वा ड्कुरसन्धिमण्डपानि ।
लथगर्भगृहाणि वीक्ष्य दूये भृशमन्यान्यपि देवताकुलानि ॥
 
मुखराणि पुरा मृदङ्गघोषैरभितो देवकुलामि यान्यभूवन् ।
तुमुलानि भवन्ति फेरवाणां निनदैस्तानि भयङ्करैरिदानीम् ॥
 
अतिलय चिरन्तनीं स्वसीमामपदेष्वर्पित जीवनप्रवृत्तिः ।
मुहुरूपथगामिनी तुळुष्कानधुना हानुकरोति सह्यकन्या ॥
 
सतताध्वरधूम सौरमैः प्राङ्गनिगमोद्घोषणवद्भिरग्रहारैः :
अधुनाजनि विस्रमांसगन्धैरधिकक्षीबतुलुक सिंहनादैः ॥
 
मधुरोपवनं निरोक्ष्य दूये बहुशः खण्तिनालिकेरपण्डम् ।
परितो नृकरोटिकोटिहारप्रचलच्छ्रलपरम्परापरीतम् ॥
 
रमणीयतरो बभूव यस्मिन रमणीनां मणिनूपुरप्रणादः ।
द्विजशृङ्गलिकाखलात्क्रियाभिः कुरुते राजपथः स्वकर्णशूलम् ॥