This page has not been fully proofread.

EH
 
MADHURAVIJAYAM
 
अलिविभ्रममन्तरेति यन्न विधोस्तन्मृगलक्ष्म किन्त्वयम् ।
 
पुरजिद्रथचक्रतार्जितो बहलः कज्जललेपकालिमा ॥ ५० ॥
 
मघवन्मणिभङ्गमेचकः शशिनि श्यामलिमा चकारित यः ।
जनयत्ययमङ्कपालिकाप्रणयालीन निशीथिनीधियम् ॥ ५१ ॥
 
कल्यामि कलङ्ककैतवान्नियतं धारयते....
 
[इति श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते
सप्तमः सर्गः । *]
 
117
 
* इतः परमुपन्त्रिंशपद्य निवेशपर्याप्त पत्र तालपत्रादर्शे न लिखितम् । 'व्याघ्र-
पुरी' त्यादीनां वृत्तमेददर्शनादष्टमसगन्तिर्भावः संभाव्यते ।