2023-02-17 20:22:26 by ambuda-bot
This page has not been fully proofread.
9
116
MADHURAVIJAYAM
कमलाक्षि ! कटाक्ष्यतामयं समयो वर्णनया रसाईया।
जन एष वचस्तवामृतं श्रवसा पाययितुं कुतूहली ॥ ४० ॥
इति सा दयितेन भाषिता दरनम्रं दधती मुखाम्बुजम् ।
बद्रति स्म शनैः शुचिस्मिता सरसोदारपदां सरस्वतीम् ॥ ४१ ॥
स्वदमानसुगन्धिमारुतः प्रसरत्कोमलचन्द्रिकोदयः ।
नृपचन्द्र । निरीक्ष्यतामयं [समयः*] पोषितपुष्पसायकः ॥ ४२ ॥
पारिरभ्य दृढं चिरागतः प्रथमाशाशा निशापतिः ।
[श्लथयत्यय*]मशुभिर्नखैस्तिमिर श्रेणिमयीं प्रवेणिकाम् ॥ ४३ ॥
पथमाचलमौलिमुच्चकैरधिरुह्याम्बरपालसम्भृतम् ।
अयमंशुमृणालिका मुखैत्तिमिरं चूषयतीव चन्द्रमाः ॥ ४४ ॥
अल्निीलमयस्तमोमयं प्रविलाप्योदयरागवह्निना ।
कलयत्ययमोषधीश्वरः कलधौत शुचि कौमुदीमिषात् ॥ ४५ ॥
शशिमण्डलशङ्खपेटकादवकृप्य क्षपया समर्पितम् ।
कुमुदच्छाव कौमुदीमयं दधती क्षौममभाद् दिगङ्गना ॥ ४६ ॥
हरितं परिरभ्य वासवीं हरिणाङ्क: करपातलीलया ।
स्पृशति प्रणयात् कुमुद्वतीं बत ! विश्वासपदं न कामिनः ॥ ४७ ॥
मुहुरामृशदेव पद्मिनीमपि रागी क्षणदाकरः करैः '
यदमु प्रति नेयमुन्मुखी प्रभवत्यत्र पतिव्रतागुणः ॥ ४८ ॥
अनुदर्शमनुप्रवेशतस्तपनाच्छक्तिमवाप तापिनीम् ।
नियतं हिमदीधितिर्यतः क्षमते तापयितुं वियोगिनः ॥ ४९ ॥