This page has been fully proofread once and needs a second look.

9
 
116
 
MADHURAVIJAYAM
 
कमलाक्षि ! कटाक्ष्यतामयं समयो वर्णनया रसार्द्रया।

जन एष वचस्तवामृतं श्रवसा पाययितुं कुतूहली ॥ ४० ॥
 

 
इति सा दयितेन भाषिता दरनम्रं दधती मुखाम्बुजम् ।
बद्र

वद
ति स्म शनैः शुचिस्मिता सरसोदारपदां सरस्वतीम् ॥ ४१ ॥
 

 
स्वदमानसुगन्धिमारुतः प्रसरत्कोमलचन्द्रिकोदयः ।

नृपचन्द्र ! निरीक्ष्यतामयं [समयः*] पोषितपुष्पसायकः ॥ ४२ ॥
 

 
पारिरभ्य दृढं चिरागतः प्रथमाशासुदृशा निशापतिः ।

[श्लथयत्यय*]मंशुभिर्नखैस्तिमिर श्रेणिमयीं प्रवेणिकाम् ॥ ४३ ॥
 

 
पथमाचलमौलिमुच्चकैरधिरुह्याम्बरपात्रसम्भृतम् ।

अयमंशुमृणालिका मुखैत्स्तिमिरं चूषयतीव चन्द्रमाः ॥ ४४ ॥
 

 
ल्निीलिनीलमयस्तमोमयं प्रविलाप्योदयरागवह्निना ।

कलयत्ययमोषधीश्वरः कलधौतं शुचि कौमुदीमिषात् ॥ ४५ ॥
 

 
शशिमण्डलशङ्खपेटकादवकृप्ष्य क्षपया समर्पितम् ।

कुमुदच्छावछवि कौमुदीमयं दधती क्षौममभाद् दिगङ्गना ॥ ४६ ॥
 

 
हरितं परिरभ्य वासवीं हरिणाङ्क: करपातलीलया ।

स्पृशति प्रणयात् कुमुद्वतीं बत ! विश्वासपदं न कामिनः ॥ ४७ ॥
 

 
मुहुरामृशदेव पद्मिनीमपि रागी क्षणदाकरः करैः '
यदमु

यदमुं
प्रति नेयमुन्मुखी प्रभवत्यत्र पतिव्रतागुणः ॥ ४८ ॥
 

 
अनुदर्शमनुप्रवेशतस्तपनाच्छक्तिमवाप तापिनीम् ।
 

नियतं हिमदीधितिर्यतः क्षमते तापयितुं वियोगिनः ॥ ४९ ॥