This page has not been fully proofread.

MADHURAVIJAYAM
 
अहरत्ययरागपल्लवस्तमसा कन्दलितो नभस्तरुः ।
 
सृजति स्म निरन्तरं हरिद्विटपैस्तारक कोरकावलिम् ॥ ३० ॥
 
अगमन्नभिसारिकाः प्रियाननुरागाञ्ज नरञ्जितेक्षणाः ।
अभिनत्तिमिरेऽपि ताः पुनःश्वसितेनैव सुगन्धिना जनः ॥ ३१ ॥
 
जननीमुपलभ्यं यामिनीमधिकस्नेहदशाभिवर्धिताः।
दिवसस्य लयं प्रपेदुखो गृहदीपा मुहुरका इव ॥ ३२ ॥
 
उडुपुप्पकर म्बितं तमःकचभारं दधती निशीथिनी ।
अचिर।दियमन्वपालयत् कुमुद्रस्मेरमुखी निशाकरम् ॥ ३३ ॥
 
तदनु क्षणदागमोल्लसत्कलशाम्भोनिधिवीचिरोचिषः ।
व्यरुचन् कतिचित् कराकुराः शशिनः शातमखे दिशामुखे ॥ ३४ ॥
 
तरलालसतारकं मुखं कलयन्ती शरकाण्डपाण्डरम् ।
बिगलत्तिमिराम्बरा बभौ हरिदैन्द्री हरिणाङ्कगर्भिणी ॥ ३५ ॥
 
अथ किञ्चिदृश्य सैन्दवं वपुरादयरागलोहितम् ।
बलशासनदिग्विलासिनीमुखसिन्दूरललामकोमलम् ॥ ३६ ॥
 
परिपिण्डितयावकारुणं प्रचकाशे हिमरश्मिमण्डलम् ।
रचितं नवरक्तसन्ध्य कैर्विजयच्छल मिवात्मजन्मनः ॥ ३७ ॥
 
115
 
परुषेऽपि तथा प्रभानिधौ विधुरं लोकमिने परेथुषि ।
उदशिश्वसदृतैः कौरथ राजा मृदुभिर्नवोदयः ॥ ३८ ॥
 
अथ कम्पनृपोऽपि कृत्यवित् कृतसन्ध्यासमयोचितक्रियः ।
अवदत् सविधे स्थितां प्रियां भुवि गडगेत्यभिनन्दिताहृयाम् ॥ ३९ ॥