This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
अहरत्ययरागपल्लवस्तमसा कन्दलितो नभस्तरुः ।
 

सृजति स्म निरन्तरं हरिद्विटपैस्तारक कोरकावलिम् ॥ ३० ॥
 

 
अगमन्नभिसारिकाः प्रियाननुरागाञ्ज नरञ्जितेक्षणाः ।

अभिनत्तिमिरेऽपि ताः <error>पुनःश्वसितेनैव</error><fix>पुनः श्वसितेनैव</fix> सुगन्धिना जनः ॥ ३१ ॥
 

 
जननीमुपलभ्यं यामिनीमधिकस्नेहदशाभिवर्धिताः।

दिवसस्य लयं प्रपेदुखोषो गृहदीपा मुहुरर्भका इव ॥ ३२ ॥
 

 
उडुपुप्ष्पकर म्बितं तमःकचभारं दधती निशीथिनी ।

अचिर।रादियमन्वपालयत् कुमुद्रस्मेरमुखी निशाकरम् ॥ ३३ ॥
 

 
तदनु क्षणदागमोल्लसत्कलशाम्भोनिधिवीचिरोचिषः ।

व्यरुचन् कतिचित् कराकुराः शशिनः शातमखे दिशामुखे ॥ ३४ ॥
 

 
तरलालसतारकं मुखं कलयन्ती शरकाण्डपाण्डरम् ।
बि

वि
गलत्तिमिराम्बरा बभौ हरिदैन्द्री हरिणाङ्कगर्भिणी ॥ ३५ ॥
 

 
अथ किञ्चिदृश्य सैतैन्दवं वपुरार्द्रोदयरागलोहितम् ।

बलशासनदिग्विलासिनीमुखसिन्दूरललामकोमलम् ॥ ३६ ॥
 

 
परिपिण्डितयावकारुणं प्रचकाशे हिमरश्मिमण्डलम् ।

रचितं नवरक्तसन्ध्य कैर्विजयच्छल मिवात्मजन्मनः ॥ ३७ ॥
 
115
 

 
परुषेऽपि तथा प्रभानिधौ विधुरं लोकमिने परेथुयुषि ।

<error>
उदशिश्वसदृतैः कौ</error><fix>उदशिश्वसदादृतैः</fix> करैरथ राजा मृदुभिर्नवोदयः ॥ ३८ ॥
 

 
अथ कम्पनृपोऽपि कृत्यवित् कृतसन्ध्यासमयोचितक्रियः ।

अवदत् सविधे स्थितां प्रियां भुवि गडगेत्यभिनन्दिताहृह्वयाम् ॥ ३९ ॥