This page has not been fully proofread.

इं
 
75
 
114
 
MADHURAVIJAYAM
 
रविरथ्यखुरोत्थितापरक्षितिभृङ्गैरिकरेणुशोणया ।
 
क्षणमेकमकारि सन्ध्यया वरुणाशारणकङकभ्रमः ॥ २० ॥
 
वियति व्यस्र्चन् पयोधराः स्टेटसन्ध्यापरिपाटलत्विषः ।
अचिरावतराद्विभावरीपदलाक्षापटलानुकारिणः ॥ २१ ॥
 
नवपलवकोमलच्छविदिवि सान्ध्यो ददृशे महोभरः ।
(विनि?रवि)पातरयात् समुत्थितश्चरमाब्धेरिव विद्रुमोत्करः ॥ २२ ॥
 
उदियाय ततो दिगङ्गनाश्रवणाकल्पतमालपल्लवः ।
रजनीमुखपत्रलेखिकारचनारडकुमदस्त मोड्कुरः ॥ २३ ॥
 
किमु धूमभरः प्रशाम्यतो द्युमणिग्रावगतस्य तेजसः ।
प्रससार दिशस्तमोमिषात् किमु मीलत्कमलालिसञ्चयः ॥ २४ ॥
 
हलिहेदिलत्कलिन्दजालहरीकन्दलकालिमद्रुहः ।
परितस्तरुरम्बरस्थलीं परितः स्थूलतमास्तमोभराः ॥ १५ ॥
 
नयनानि जनस्य तत्क्षणान्निरुणद्धि स्म निरन्तरं तमः ।
रविदीपभृताभ्रकर्परच्युतकालाञ्जनपुञ्जमेचकम् ॥ २६ ॥
 
तदमसत मांसलं तमस्तनुतारागणबिन्दुजालकम् ।
दिवसात्ययचण्डताण्डवच्युतमीशस्य गजा जिन जनाः ॥ २७ ॥
तिमि ...........रोपमैस्तरला नैरुदभावि तारकैः ।
परुषातपतापितात्मनो गगनस्येव निदाघबिन्दुभिः ॥ २८ ॥
 
अवपत् किमु कालकर्षकस्तिमिराम्भःकलुषे नभस्तले ।
विमलामुड्डबीचमण्डली नवचन्द्रातपसस्यसिद्धये ॥ २९ ॥