This page has been fully proofread once and needs a second look.

इं
 
75
 
114
 
MADHURAVIJAYAM
 
रविरथ्यखुरोत्थितापरक्षितिभृङ्द्गैरिकरेणुशोणया ।
 

क्षणमेकमकारि सन्ध्यया <error>वरुणाशारुणकञ्ङुकभ्रमः</error><fix>वरुणाशारुणकञ्चुकभ्रमः</fix> ॥ २० ॥
 

 
वियति व्यस्र्रुचन् पयोधराः स्टेफुटसन्ध्यापरिपाटलत्विषः ।

अचिरावतराद्विभावरीपदलाक्षापटलानुकारिणः ॥ २१ ॥
 

 
नवपल्लवकोमलच्छविर्दिवि सान्ध्यो ददृशे महोभरः ।

(विनि?रवि)पातरयात् समुत्थितश्चरमाब्धेरिव विद्रुमोत्करः ॥ २२ ॥
 

 
उदियाय ततो दिगङ्गनाश्रवणाकल्पतमालपल्लवः ।

रजनीमुखपत्रलेखिकारचनारङ्कुमदस्त मोड्ङ्कुरः ॥ २३ ॥
 

 
किमु धूमभरः प्रशाम्यतो द्युमणिग्रावगतस्य तेजसः ।

प्रससार दिशस्तमोमिषात् किमु मीलत्कमलालिसञ्चयः ॥ २४ ॥
 

 
हलिहेदितिदलत्कलिन्दजालहरीकन्दलकालिमद्रुहः ।

परितस्तरुरम्बरस्थलीं परितः स्थूलतमास्तमोभराः ॥ १५ ॥
 

 
नयनानि जनस्य तत्क्षणान्निरुणद्धि स्म निरन्तरं तमः ।

रविदीपभृताभ्रकर्परच्युतकालाञ्जनपुञ्जमेचकम् ॥ २६ ॥
 

 
तदमंसत मांसलं तमस्तनुतारागणबिन्दुजालकम् ।

दिवसात्ययचण्डताण्डवच्युतमीशस्य गजा जिनं जनाः ॥ २७ ॥

 
तिमि ............... .... ....<flag>रोपमैस्तरला नैभैरुदभावि</flag> तारकैः ।

परुषातपतापितात्मनो गगनस्येव निदाघबिन्दुभिः ॥ २८ ॥
 

 
अवपत् किमु कालकर्षकस्तिमिराम्भःकलुषे नभस्तले ।

<error>
विमलामुड्डडुबीचमण्डलीलीं</error><fix>विमलामुडुबीजमण्डलीं</fix> नवचन्द्रातपसस्यसिद्धये ॥ २९ ॥