This page has not been fully proofread.

P
 
MADHURAVIJAYAM
 
चलचञ्चुपत
द्विसाकुरैर्दिननाथार्पितदीनदृष्टिभिः ।
रजनीविरहव्यथातुरैरथ चक्राह्वयुगैरभूयत ॥ १० ॥
 
उदधौ पतितस्य भास्वतः कतिमिश्चित् किरणैः खवर्तिभिः ।
उदपाद्यत कालकुञ्जरोइलिताहर्दुमशाखिकाभ्रमः ॥ ११ ॥
 
पतयालुपतङ्ग मण्डलक्षरदंशुत्कररञ्जिताकृतिः ।
मधुकैटभरक्तलोहितामुदधिः प्राप पुरातनीं दशाम् ॥ १२ ॥
 
गतदीप्ति गभस्तिमालिनो विलुठ[द् वीचिषु बिम्ब"]मम्बुधेः ।
शफराः फलखण्डशङ्कया रसनामिलिंलिहुर्मुहुर्मुहुः ॥ १३ ॥
 
स्खलितात पलेशमायतैर्विटपिच्छायशतैर्वृतं जगत् ।
भयविद्रवदर्कसैनिकं तिमिरैः कान्तमिवैक्ष्यत क्षणम् ॥ १४ ॥
 
प्रवसन् दिवसात्यये न्यवादु भयेषूभयमुण्णदीधितिः ।
हृदयेषु वियोगियोषितां परिताप विषमोषधीषु च ॥ १५ ॥
 
खगमेकमवेक्ष्य तादृशं पतितं विष्णुपदातिलङ्घनात् ।
निभृतं चकिता इवाखिलास्तरुनीडेषु विलिलियरे खगाः ॥ १६ ॥
 
घटमानदलाररीपुटं नलिनं मन्दिरमिन्दिरास्पदम् ।
परिपालयति स्म निकणन परितो यामिकवन्मधुव्रतः ॥ १७ ॥
 
अधिपङ्कजकोशमादधे बहिरालीनमधुव्रतच्छलात् ।
मधुसौरभरक्षणोत्सुका दिनलक्ष्मीरिव लक्ष्म जातुषम् ॥ १८ ॥
 
दिनवेषमपास्य यामिनीवपुषा कालनटस्य नृत्यतः ।
दहशे जगता पितृप्रसुर्दिवि नेपथ्यपटीव पाटला ॥ १९ ॥
 
118