This page has been fully proofread once and needs a second look.

P
 
MADHURAVIJAYAM
 
चलचञ्चुपत
द्विबिसाङ्कुरैर्दिननाथार्पितदीनदृष्टिभिः ।

रजनीविरहव्यथातुरैरथ चक्राह्वयुगैरभूयत ॥ १० ॥
 

 
उदधौ पतितस्य भास्वतः कतिमिभिश्चित् किरणैः खवर्तिभिः ।

उदपाद्यत कालकुञ्जरोद्दलिताहर्दुद्रुमशाखिकाभ्रमः ॥ ११ ॥
 

 
<flag>
पतयालुपतङ्ग मण्डलक्षरदंशुशूत्कररञ्जिताकृतिः
</flag> ।
मधुकैटभरक्तलोहितामुदधिः प्राप पुरातनीं दशाम् ॥ १२ ॥
 

 
<flag>
गतदीप्ति</flag> गभस्तिमालिनो विलुठ[द् वीचिषु बिम्ब"*]मम्बुधेः ।

शफराः फलखण्डशङ्कया रसनामिलिंभिर्लिलिहुर्मुहुर्मुहुः ॥ १३ ॥
 

 
स्खलितात पलेशमायतैर्विटपिच्छायशतैर्वृतं जगत् ।

भयविद्रवदर्कसैनिकं तिमिरैः कान्तमिवैक्ष्यत क्षणम् ॥ १४ ॥
 

 
प्रवसन् दिवसात्यये न्यवाधादु भयेषूभयमुण्ष्णदीधितिः ।

हृदयेषु वियोगियोषितां परितापं त्विषमोषधीषु च ॥ १५ ॥
 

 
खगमेकमवेक्ष्य तादृशं पतितं विष्णुपदातिलङ्घनात् ।

निभृतं चकिता इवाखिलास्तरुनीडेषु विलिलियल्यिरे खगाः ॥ १६ ॥
 

 
घटमानदलाररीपुटं नलिनं मन्दिरमिन्दिरास्पदम् ।

परिपालयति स्म निक्वन् परितो यामिकवन्मधुव्रतः ॥ १७ ॥
 

 
अधिपङ्कजकोशमादधे बहिरालीनमधुव्रतच्छलात् ।

मधुसौरभरक्षणोत्सुका दिनलक्ष्मीरिव लक्ष्म जातुषम् ॥ १८ ॥
 

 
दिनवेषमपास्य यामिनीवपुषा कालनटस्य नृत्यतः ।
दह

ददृ
शे जगता पितृप्रसुसूर्दिवि नेपथ्यपटीव पाटला ॥ १९ ॥
 
118