This page has not been fully proofread.


 
अथ सप्तमः सर्गः । ।
 
अथ कम्पनरेन्द्रसुभ्रुवां मुखपद्मान्यनुहार्य पङ्कजैः ।
अपराधभियेव मानुमानपरक्ष्माधरकन्दरामगात् ॥ १ ॥
 
परिचूषितदीप्तिरम्बुजैः पुनरूप्माणमि बाप्तुमौर्वतः ।
रयवल्गितवाहनो रविः पयसां राशिमवाप पश्चिमम् ॥ २ ॥
 
अपसर्पणसंभ्रमच्युतं दिनलक्ष्म्यास्तपनीयकुण्डलम् ।
रविमण्डलमाशशङ्किरे वरुणान्तःपुरवामलोचनाः ॥ ३ ॥
 
तरणेररुणीकृताः करैर्वरुणस्त्रैणकपोलभित्तयः ।
मदलोहिनिकामुपावहन् मदिरास्वादनमन्तराप्यहो ॥ ४ ॥
 
कमलोदर संभृतं करैर्मधु पीत्वा रविरुज्झिताम्बरः
स्पृशति स्म दिशं प्रचेतसो न मदः कस्य विकारकारणम् ॥ ५ ॥
 
प्रथमां हरितं प्रभाकरो विरहय्यात्मनि तापमाप यम् ।
अपरामुपगम्य तं जहौ हृदयं कः खलु वेत्ति गगिणाम् ॥ ६ ॥
 
परलोकपथं प्रपेदुषः पुनरावृत्तिमपेक्ष्य भास्वतः ।
मुकुलीभवदम्बुजच्छलाद करोदञ्जलिबन्धमब्जिनी ॥ ७ ॥
 
प्रतिबिम्बपरम्पराम्बुधौ पवनोद्धूततरङ्गसङ्गिनी ।
नभसोऽवतरिष्यतो रवेर्मणिसोपानधियं व्यभावय त् । ८ ॥
 
चरमाम्बुधिवीचिचुम्बितप्रतिबिम्बाश्रय मण्डलं रवेः ।
दिवसान्तनटस्य धूर्जटेर्विदधे काञ्चनतालविभ्रमम् ॥ ९ ।