This page has been fully proofread once and needs a second look.


 
अथ सप्तमः सर्गः । ।
 

 
अथ कम्पनरेन्द्रसुभ्रुवां मुखपद्मान्यनुहार्य पङ्कजैः ।

अपराधभियेव माभानुमानपरक्ष्माधरकन्दरामगात् ॥ १ ॥
 

 
परिचूषितदीप्तिरम्बुजैः पुनरूप्ष्माणमि बावाप्तुमौर्वतः ।

रयवल्गितवाहनो रविः पयसां राशिमवाप पश्चिमम् ॥ २ ॥
 

 
अपसर्पणसंभ्रमच्युतं दिनलक्ष्म्यास्तपनीयकुण्डलम् ।

रविमण्डलमाशशङ्किरे वरुणान्तःपुरवामलोचनाः ॥ ३ ॥
 

 
तरणेररुणीकृताः करैर्वरुणस्त्रैणकपोलभित्तयः ।

मदलोहिनिकामुपावहन् मदिरास्वादनमन्तराप्यहो ॥ ४ ॥
 

 
कमलोदर संभृतं करैर्मधु पीत्वा रविरुज्झिताम्बरः

स्पृशति स्म दिशं प्रचेतसो न मदः कस्य विकारकारणम् ॥ ५ ॥
 

 
प्रथमां हरितं प्रभाकरो विरहय्यात्मनि तापमाप यम् ।

अपरामुपगम्य तं जहौ हृदयं कः खलु वेत्ति <error>गगिणाम्</error><fix>रागिणाम्</fix> ॥ ६ ॥
 

 
परलोकपथं प्रपेदुषः पुनरावृत्तिमपेक्ष्य भास्वतः ।

मुकुलीभवदम्बुजच्छलाद करोदञ्जलिबन्धमब्जिनी ॥ ७ ॥
 

 
प्रतिबिम्बपरम्पराम्बुधौ पवनोद्धूततरङ्गसङ्गिनी ।

नभसोऽवतरिष्यतो रवेर्मणिसोपानधियं व्यभावय त् ।त् ॥ ८ ॥
 

 
चरमाम्बुधिवीचिचुम्बितप्रतिबिम्बाश्रयि मण्डलं रवेः ।

दिवसान्तनटस्य धूर्जटेर्विदधे काञ्चनतालविभ्रमम् ॥ ९