This page has not been fully proofread.

D
 
110
 
MADHURAVIJAYAM
 
चरणविलुठितो विलङ्घितोरुः परिगतनीविरवाप्तनाभिचक्रः ।
स्तनतटलुलितः कमेण तासां मुखशशिबिम्बमचुम्बदम्बुपूरः ॥ ६० ॥
 
विशदनखपदं वपुः सपत्न्या.... नव पश्यति निर्निमेपमम्मिन् ।
व्यधित विहृतिकैतवेन काचित् प्रहितजला परिमीलिताक्षमेनम् ॥ ६१ ॥
 
विशदमधरमध्यनञ्जनाभं विगतललाम वितन्वती ललाटम् ।
रतिरिव जलकेलिरङ्गनानामवनिपतेः स्पृहणीयतामयासीत् ॥ ६२ ॥
 
परिमुषितपटीरलेपने] [*] विरललग्नसरोजकेसरेषु ।
कुचकलशतटेषु कुन्तलीनां नखरपदानि न लक्षितान्यभूवन् ॥ ६३ ॥
 
बिह्वतिरयपरिच्युतान् वतंसानसितदृशामनुदद् बहिः प्रवाहः ।
 
नहि जडिमसमन्वितोऽपि कोऽपि श्रुतिविषयात् पतितैः करोति मैत्रीम् ॥
 
अपि दयिततमेन चारिताभिर्गृहसरसो विजहे न वारि ताभिः ।
परिलुलितललामचर्चिकाभिर्विहतिरसान्महिलामचर्चिकाभिः ॥ ६५ ॥
 
अथ विहरणखेद मन्थराभिः सह निरगात् सरसो नृपः प्रियाभिः ।
कलशजलनिधेरिवाप्सरोभिर्विबुधतरुर्मथनश्रमालसाभिः ॥ ६६ ॥
 
स्फुटनखरदनाङ्गमङगनानां परिलगदार्द्रदुकूलदर्शितोरु ।
वपुरनुकलमैक्षत क्षितीशो जलकणदन्तुरदीर्घकुन्तलाग्रम् ॥ ६७ ॥
 
चिकुरनियमनेषु कामिनीनामभिनववस्त्रपरिग्रहान्तरेषु ।
अभिमतपददर्शनैरयत्नैरतिमदनं स्वममंस्त कम्पराजः ॥ ६८ ॥