This page has been fully proofread once and needs a second look.

चरणविलुठितो विलङ्घितोरुः परिगतनीविरवाप्तनाभिचक्रः ।
स्तनतटलुलितः क्रमेण तासां मुखशशिबिम्बमचुम्बदम्बुपूरः ॥ ६० ॥
 
विशदनखपदं वपुः सपत्न्या....नव पश्यति निर्निमेषमस्मिन् ।
व्यधित विहृतिकैतवेन काचित् प्रहितजला परिमीलिताक्षमेनम् ॥ ६१ ॥
 
विशदमधरमक्ष्यनञ्जनाभं विगतललाम वितन्वती ललाटम् ।
रतिरिव जलकेलिरङ्गनानामवनिपतेः स्पृहणीयतामयासीत् ॥ ६२ ॥
 
<error>परिमुषितपटीरलेपनेप्व[*प्य]विरललग्नसरोजकेसरेषु</error><fix>परिमुषितपटीरलेपनेष्व[*ष्य]विरललग्नसरोजकेसरेषु</fix> ।
कुचकलशतटेषु कुन्तलीनां नखरपदानि न लक्षितान्यभूवन् ॥ ६३ ॥
 
विहृतिरयपरिच्युतान् वतंसानसितदृशामनुदद् बहिः प्रवाहः ।
नहि जडिमसमन्वितोऽपि कोऽपि श्रुतिविषयात् पतितैः करोति मैत्रीम् ॥
 
अपि दयिततमेन चावारिताभिर्गृहसरसो विजहे न वारि ताभिः ।
परिलुलितललामचर्चिकाभिर्विहृतिरसान्महिलामचर्चिकाभिः ॥ ६५ ॥
 
अथ विहरणखेदमन्थराभिः सह निरगात् सरसो नृपः प्रियाभिः ।
कलशजलनिधेरिवाप्सरोभिर्विबुधतरुर्मथनश्रमालसाभिः ॥ ६६ ॥
 
स्फुटनखरदनाङ्गमङ्गनानां परिलगदार्द्रदुकूलदर्शितोरु ।
वपुरनुकलमैक्षत क्षितीशो जलकणदन्तुरदीर्घकुन्तलाग्रम् ॥ ६७ ॥
 
चिकुरनियमनेषु कामिनीनामभिनववस्त्रपरिग्रहान्तरेषु ।
अभिमतपददर्शनैरयत्नैरतिमदनं स्वममंस्त कम्पराजः ॥ ६८ ॥