This page has been fully proofread once and needs a second look.

D
 
110
 
MADHURAVIJAYAM
 
चरणविलुठितो विलङ्घितोरुः परिगतनीविरवाप्तनाभिचक्रः ।

स्तनतटलुलितः कमेण तासां मुखशशिबिम्बमचुम्बदम्बुपूरः ॥ ६० ॥
 

 
विशदनखपदं वपुः सपत्न्या.... नव पश्यति निर्निमेपमम्षमस्मिन् ।

व्यधित विहृतिकैतवेन काचित् प्रहितजला परिमीलिताक्षमेनम् ॥ ६१ ॥
 

 
विशदमधरमध्क्ष्यनञ्जनाभं विगतललाम वितन्वती ललाटम् ।

रतिरिव जलकेलिरङ्गनानामवनिपतेः स्पृहणीयतामयासीत् ॥ ६२ ॥
 

 
<error>
परिमुषितपटीरलेपने] प्व[*प्य] विरललग्नसरोजकेसरेषु
</error><fix>परिमुषितपटीरलेपनेष्व[*ष्य]विरललग्नसरोजकेसरेषु</fix> ।
कुचकलशतटेषु कुन्तलीनां नखरपदानि न लक्षितान्यभूवन् ॥ ६३ ॥
 
बिह्व

 
विहृ
तिरयपरिच्युतान् वतंसानसितदृशामनुदद् बहिः प्रवाहः ।
 

नहि जडिमसमन्वितोऽपि कोऽपि श्रुतिविषयात् पतितैः करोति मैत्रीम् ॥
 

 
अपि दयिततमेन चारिताभिर्गृहसरसो विजहे न वारि ताभिः ।

परिलुलितललामचर्चिकाभिर्विहृतिरसान्महिलामचर्चिकाभिः ॥ ६५ ॥
 

 
अथ विहरणखेद मन्थराभिः सह निरगात् सरसो नृपः प्रियाभिः ।

कलशजलनिधेरिवाप्सरोभिर्विबुधतरुर्मथनश्रमालसाभिः ॥ ६६ ॥
 

 
स्फुटनखरदनाङ्गमङ्गनानां परिलगदार्द्रदुकूलदर्शितोरु ।

वपुरनुकलमैक्षत क्षितीशो जलकणदन्तुरदीर्घकुन्तलाग्रम् ॥ ६७ ॥
 

 
चिकुरनियमनेषु कामिनीनामभिनववस्त्रपरिग्रहान्तरेषु ।

अभिमतपददर्शनैरयत्नैरतिमदनं स्वममंस्त कम्पराजः ॥ ६८ ॥