2023-02-17 20:22:25 by ambuda-bot
This page has not been fully proofread.
D
अथ षष्ठः सर्गः ।
अथ बरतनुभिः समं कदाचिद् विरचयितुं कसुमापचायलीलाम् ।
प्रमदवनममर्त्यकामिनीमिर्हरिवि नन्दनमासन्नरेन्द्रः ॥ १ ॥
मुखरितमणिमेखलाकलापाः प्रचलित मन्वचस्तमायताक्ष्यः ।
उपवनलतिका इवोपगीतभ्रमरकुला मलयाद्विगन्धवाम् ॥ २ ॥
परिवहदनुरागपुरकल्पः पद्गलितैरथ यावकैर्वधूनाम् ।
सरणिररुणतामतीव नीता समजनि नृतनपलवस्तृतेव ॥ ३ ॥
विविधविलसितैर्विलासिनीनामसित सितारुणकान्तिभिः कटाक्षैः ।
कुवलयकुमुदारविन्दमालाखचितमि वामलमम्बरं वभासे ॥ ४ ॥
अजनयदवनीश्वरस्य चेतस्यसितदृशां मणिनूपुरप्रणादः ।
सहपरिचलितप्रसूनकेतोरवनमदैक्षवचापघोपशङ्काम् ॥ ५॥
अवनिपतिमनुप्रतस्थुषीणां हरिणदृशामितरेतरप्रसक्ताः ।
मधुरसमधुरा गिरस्तदानीं बहुविधभङ्गितरङ्गिता बभूवुः ॥ ६ ॥
वरतनु ! परतः प्रयाहि मन्दं हरिणदृशां पुरतः प्रयायिनीनाम् ।
पथि गतिरयशीर्णहारमुक्तामणिगणशर्करिले पदं न कुर्याः ॥ ७ ॥
नलिनमुखि ! न बोधय प्रसुप्तानिह मणिनूपुरशिञ्जितेन हंसान् ।
द्रुतगमनविघातमाचरेयुर्नियतममी तव पादपद्मलमाः ॥ ८ ॥
करनखरमरीचिमञ्जरीभिर्हतहृदयो जलशङ्कया कुरङ्गः ।
अनुपतति विलोकयैकवारं सखि ! नियंत स निवर्तते विलक्षः ॥ ९ ॥