This page has been fully proofread once and needs a second look.

D
 
अथ षष्ठः सर्गः ।
 

 
अथ रतनुभिः समं कदाचिद् विरचयितुं कसुमापचायलीलाम् ।

प्रमदवनममर्त्यकामिनीमिर्हभिर्हरिरिवि नन्दनमासन्नरेन्द्रः ॥ १ ॥
 

 
मुखरितमणिमेखलाकलापाः प्रचलित मन्वचलंस्तमायताक्ष्यः ।

उपवनलतिका इवोपगीतभ्रमरकुला मलयाद्विरिगन्धवाम् ॥ २ ॥
 

 
परिवहदनुरागपुपूरकल्पः पद्गलितैरथ यावकैर्वधूनाम् ।

सरणिररुणतामतीव नीता समजनि नृतनपलवल्लवास्तृतेव ॥ ३ ॥
 

 
विविधविलसितैर्विलासिनीनामसित सितारुणकान्तिभिः कटाक्षैः ।

कुवलयकुमुदारविन्दमालाखचितमि वामलमम्बरं भासे ॥ ४ ॥
 

 
अजनयदवनीश्वरस्य चेतस्यसितदृशां मणिनूपुरप्रणादः ।

सहपरिचलितप्रसूनकेतोरवनमदैक्षवचापघोशङ्काम् ॥ ५॥
 

 
अवनिपतिमनुप्रतस्थुषीणां हरिणदृशामितरेतरप्रसक्ताः ।

मधुरसमधुरा गिरस्तदानीं बहुविधभङ्गितरङ्गिता बभूवुः ॥ ६ ॥
 

 
वरतनु ! परतः प्रयाहि मन्दं हरिणदृशां पुरतः प्रयायिनीनाम् ।

पथि गतिरयशीर्णहारमुक्तामणिगणशर्करिले पदं न कुर्याः ॥ ७ ॥
 

 
नलिनमुखि ! न बोधय प्रसुप्तानिह मणिनूपुरशिञ्जितेन हंसान् ।

द्रुतगमनविघातमाचरेयुर्नियतममी तव पादपद्मलमाःग्नाः ॥ ८ ॥
 

 
करनखरमरीचिमञ्जरीभिर्हतहृदयो जलशङ्कया कुरङ्गः ।

अनुपतति विलोकयैकवारं सखि ! नियंतयतं स निवर्तते विलक्षः ॥ ९ ॥