2023-02-17 20:22:25 by ambuda-bot
This page has not been fully proofread.
MADHURAVIJAYAM
अधिगताभिनवार्तवसम्पदः स्तचक संजनितस्तनविभ्रमाः ।
भ्रमरकामुकसंवननक्षमा वनलता ललितां दधिरे दशाम् ॥ ७० ॥
सुतनवः फलकेषु मधूत्सवे रतिपतिं परिलेखितुमुद्यताः ।
हृदयगोचरतामनिशं गतं हरिहरात्मजमेव समालिखन् ॥ ७१ ॥
[म ]दनवेरनि (भांग) निभृतं पुरः क्षितिपतिं कृतचन्दनचर्चिकाः ।
अधिकघर्मपयोशिरवागमन मृगदृशो विकसत्पुकैः करैः ॥ ७२ ॥
मुखरकङ्कणमाकुलमेखलं चलिनहारलतं लुलितालकम् ।
अबिगतश्रममस्य बघूजनो रतिविशेषमशिक्षत डोलया ॥ ७३ ॥
उचितरागविशेषमनोहरे रतिपतेरुपगानविधौ स्त्रियः ।
नृपतिगोत्रकृतम्खलना ययुः प्रियसखीस विधेषु विलक्षताम् ॥ ७४ ॥
क्षितिपतिं किल कुङ्कुममुष्टिना समभिताडयितुं धियमादधौ ।
सपदि धर्मनयःप्रसरेण तं विगलितं न विवेद वधूजनः ॥ ७५ ॥
इति समुपचिताभिश्चातुरीभिर्विशेषान्
ऋतुषु समुपलभ्यान् निर्बिशन् निर्विशङ्कम् ।
सुतनुमिरवियोगोत्कण्ठिताभिस्तृतीय
व्यतनुत पुरुषार्थ कम्पराजः कृतार्थम् ॥ ७६ ॥
इतिं [ श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीर*] कम्परायचरिते
पञ्चमः सर्गः
107