This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
अधिगताभिनवार्तवसम्पदः स्तचक बकसंजनितस्तनविभ्रमाः ।
 

भ्रमरकामुकसंवननक्षमा वनलता ललितां दधिरे दशाम् ॥ ७० ॥
 

 
सुतनवः फलकेषु मधूत्सवे रतिपतिं परिलेखितुमुद्यताः ।

हृदयगोचरतामनिशं गतं हरिहरात्मजमेव समालिखन् ॥ ७१ ॥
 

 
<error>
[म *]दनवेबेरनि (भां?भं) निभृतं</error><fix>[म*]दनबेरनि(भां?भं) निभृतं</fix> पुरः क्षितिपतिं कृतचन्दनचर्चिकाः ।

अधिकघर्मपयोशिभिरवागमन् मृगदृशो विकसत्पुकैः करैः ॥ ७२ ॥
 

 
मुखरकङ्कणमाकुलमेखलं चलिहारलतं लुलितालकम् ।

बिविगतश्रममस्य बघूवधूजनो रतिविशेषमशिक्षत डोलया ॥ ७३ ॥
 

 
उचितरागविशेषमनोहरे रतिपतेरुपगानविधौ स्त्रियः ।

नृपतिगोत्रकृतम्स्स्खलना ययुः प्रियसखीस विधेषु विलक्षताम् ॥ ७४ ॥
 

 
क्षितिपतिं किल कुङ्कुममुष्टिना समभिताडयितुं धियमादधौ ।

सपदि धर्मनयःप्रसरेण तं विगलितं न विवेद वधूजनः ॥ ७५ ॥
 

 
इति समुपचिताभिश्चातुरीभिर्विशेषान्
 

ऋतुषु समुपलभ्यान् निर्बिविशन् निर्विशङ्कम् ।

सुतनुमिभिरवियोगोत्कण्ठिताभिस्तृती
 
यं
व्यतनुत पुरुषार्थं कम्पराजः कृतार्थम् ॥ ७६ ॥
 

 
इतिं [ श्रीगङ्गादेव्या विरचिते मधुराविजय-

नाम्नि <error>वीर*] कम्परायचरिते
 
</error><fix>वीर*]कम्परायचरिते</fix>
 
पञ्चमः सर्गः
 
107