This page has not been fully proofread.

7
 
106
 
MADHURAVIJAYAM
 
द्विगुणयन्नवरत्रणवेदनां कुतकचग्रहणैः परिचुम्चनैः ।
कपटरोपकपायितलोचन निभृतहासमवेक्ष्यत यौवतेः ॥ ६० ॥
 
बिकलकञ्चकलक्ष्यन(व?ख)त्रणं विगतमौक्तिकहारमनोहरम् ।
तरुणिमोष्मनखम्पचमङ्गनास्तनयुगं हिमहारि विभोरभूत् ॥ ६१ ॥
 
उपहरन् कुसुमानि महीरुहां किसलयैः कलिताञ्जलिबन्धनः ।
मधुरकोकिलकूजितभाषितो मधुरथैनमुपासितुमासदत् ॥ ६२ ।
मधुसुगन्धि रजः सहकारज मलयशैलसमीरणमान्त्रिकाः ।
प्रणयरोपपर।ङ्मुखमानिनीहृदयसंवननार्थमिवाकिरन् । ६३ ॥
 
उपबनेप्चगमन्नुपमेयतां स्फुटरुचो नवकिंशुक्कुटुमलाः ।
मथितपान्थमृगक्षतजारुणैर्मदन केसरिणः कुटिलैनखैः ॥ ६४ ॥
 
चटुलपट्पदकज्जलपातिनी विरुरूचे नवचम्पकमञ्जरी ।
प्रकटितेव हिमापगमश्रिया स्मरमहोत्सवदीपपरम्परा ॥ ६५ ॥
 
मधुनि मुग्धदृशां मुखसंस्तवात् तदनुषङ्गितया बकुलेषु च ।
मरुति चैतदनुक्षण[सौहृ"]दात् समुचितोऽजनि सौरभसङ्क्रमः ॥ ६६ ॥
 
कणित नूपुरकुन्तलकामिनीचरणपङ्कजसङ्गवशादिव ।
मुखरभृङ्गमशोकमहीरुह्रैस्तदनुरूपमधार्यत पल्लवम् ॥ ६७ ॥
 
वरवधूपरिरम्भरसोल्लसल्ललितकुट्मलकण्टकिताकृतिः ।
 
कुरवकः कुसुमेपुमचेतनेष्वपि विशृङ्खलवृत्तिमसूचयत् ॥ ६८ ॥
 
पथिक[सार्थ*]पराक्रमणोत्सुकप्रसवकार्मुककाहलनिस्वनः ।
मधुरपञ्चमरागरसाञ्चितो जगदरञ्जयदन्यभृतध्वनिः ॥ ६९ ॥