This page has been fully proofread once and needs a second look.

7
 
106
 
MADHURAVIJAYAM
 
द्विगुणयन्नवरत्धरव्रणवेदनां <error>कुतकचग्रहणैः</error><fix>कृतकचग्रहणैः</fix> परिचुम्नैः ।

<error>कपठरोषकषायितलोचनं</error><fix>
कपटरोपकपाषकषायितलोचनं</fix> निभृतहासमवेवैक्ष्यत <error>यौवतेः</error><fix>यौवतैः</fix> ॥ ६० ॥
 
बि

 
वि
कलकञ्चुकलक्ष्यन(व?ख)त्व्रणं विगतमौक्तिकहारमनोहरम् ।

तरुणिमोष्मनखम्पचमङ्गनास्तनयुगं हिमहारि विभोरभूत् ॥ ६१ ॥
 

 
उपहरन् कुसुमानि महीरुहां किसलयैः कलिताञ्जलिबन्धनः ।

मधुरकोकिलकूजितभाषितो मधुरथैनमुपासितुमासदत् ॥ ६२

 
मधुसुगन्धि रजः सहकारजं मलयशैलसमीरणमान्त्रिकाः ।

प्रणयरोपपर।षपराङ्मुखमानिनीहृदयसंवननार्थमिवाकिरन् ६३ ॥
 

 
उपनेप्चष्वगमन्नुपमेयतां स्फुटरुचो नवकिंशुक्कुटुट्मलाः ।

मथितपान्थमृगक्षतजारुणैर्मदन केसरिणः कुटिलैर्नखैः ॥ ६४ ॥
 

 
चटुलट्पदकज्जलपातिनी विरुरूरुचे नवचम्पकमञ्जरी ।

प्रकटितेव हिमापगमश्रिया स्मरमहोत्सवदीपपरम्परा ॥ ६५ ॥
 

 
मधुनि मुग्धदृशां मुखसंस्तवात् तदनुषङ्गितया बकुलेषु च ।

मरुति चैतदनुक्षण[सौहृ"*]दात् समुचितोऽजनि सौरभसङ्क्रमः ॥ ६६ ॥
 

 
क्व
णित नूपुरकुन्तलकामिनीचरणपङ्कजसङ्गवशादिव ।

मुखरभृङ्गमशोकमहीरुह्रैहैस्तदनुरूपमधार्यत पल्लवम् ॥ ६७ ॥
 

 
वरवधूपरिरम्भरसोल्लसल्ललितकुट्मलकण्टकिताकृतिः ।
 

कुरवकः कुसुमेपुषुमचेतनेष्वपि विशृङ्खलवृत्तिमसूचयत् ॥ ६८ ॥
 

 
पथिक[सार्थ*]पराक्रमणोत्सुकप्रसवकार्मुककाहलनिस्वनः ।

मधुरपञ्चमरागरसाञ्चितो जगदरञ्जयदन्यभृतध्वनिः ॥ ६९ ॥