2023-02-17 20:22:24 by ambuda-bot
This page has not been fully proofread.
MADHURAVIJAYAM
वनभुवः परितः पवनेरितैर्नवजपाकुसुमैः कृतदीपिकाः ।
प्रथममेव नृपस्य निदेशतो विजयिनस्तुरगान् निरराजयन् ॥ ५० ॥
अथ नृपस्य समुत्सुकचेतसो [ मदन' ] केलिकलासु विलासिनः ।
प्रियमिवा[चरितुं']समुपागमत् प्रणदयन् (?) क्षणदास्तुहिनागमः ॥ ५१ ॥
हिममरैर्विहतः कमलाकरो मृदितकान्तिरभून्मृगलाञ्छनः ।
बदनमेव नरेन्द्रनतभ्रुवामभजत श्रियमप्रतिशासनाम् ॥ ५२ ॥
पुलककञ्चकितैः कुचमण्डलैः स्फुरितसीत्कृतिभिश्च मुखेन्दुभिः ।
अविरतं स्मरतन्त्रमिवान्वभूदव निपालविलासवतीजनः ॥ ५३ ॥
विकचकुन्दकलापपरिष्क्रियाविरचितालकजालकविभ्रमम् ।
असमयेऽपि समौक्तिकमण्डनं प्रभुरमंस्त निजं प्रमदाजनम् ॥ ५४ ॥
बहलकुङ्कुमपङ्कविलेपनपत्रमरो मपयोधरमण्डलैः ।
अरमताविरतं रमणीजनैरगरुगान्धिषु गर्भगृहेषु सः ॥ ५५ ॥
105
इति सुखान्युचितानि हिमागमे समनुभूय मनोभवसन्निभः ।
शिशिरयामबतीष्वपि रागवान् रमयितुं रमणीरुदयुङ्क्त सः ॥ ५६ ॥
शबलितान्यलिकागरुबिन्दुमिश्वलदृशां रतिविभ्रमसूचकैः ।
नवलवङ्गतरुप्रसवास्तृतान्यभजतानुनिशं शयितानि सः ॥ ५७ ॥
परिल्सन्नवलोध्ररजोभरच्छुरणपाण्डरगण्डतलैर्मुखः ।
मृगमदद्रवचारुविशेषकैर्मृगदृशो नृपतेरहरन् मनः ॥ ५८ ॥
अपदिशञ्छिशिरानिलमङ्ग पुलकितैर्नृपतेः सविधं गतः ।
मदनसंभृतघर्मपयः कर्णैर्भृशमलज्जत मुग्धवधूजनः ॥ ५९ ॥