This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
वनभुवः परितः पवनेरितैर्नवजपाकुसुमैः कृतदीपिकाः ।
 

प्रथममेव नृपस्य निदेशतो विजयिनस्तुरगान् निरराजयन् ॥ ५० ॥
 

 
अथ नृपस्य समुत्सुकचेतसो [ मदन' *] केलिकलासु विलासिनः ।

<error>
प्रियमिवा[चरितुं'*] समुपागमत्</error><fix>प्रियमिवा[चरितुं*]समुपागमत्</fix> प्रणदयन् (?) क्षणदास्तुहिनागमः ॥ ५१ ॥
 

 
हिमरैर्विहतः कमलाकरो मृदितकान्तिरभून्मृगलाञ्छनः ।

दनमेव नरेन्द्रनतभ्रुवामभजत श्रियमप्रतिशासनाम् ॥ ५२ ॥
 

 
पुलककञ्चुकितैः कुचमण्डलैः स्फुरितसीत्कृतिभिश्च मुखेन्दुभिः ।

अविरतं स्मरतन्त्रमिवान्वभूदव निपालविलासवतीजनः ॥ ५३ ॥
 

 
विकचकुन्दकलापपरिष्क्रियाविरचितालकजालकविभ्रमम् ।

असमयेऽपि समौक्तिकमण्डनं प्रभुरमंस्त निजं प्रमदाजनम् ॥ ५४ ॥
 

 
बहलकुङ्कुमपङ्कविलेपनपत्रसृमरो ष्मपयोधरमण्डलैः ।

अरमताविरतं <error>रमणीजनैरगरुगान्धिषु</error><fix>रमणीजनैरगरुगन्धिषु</fix> गर्भगृहेषु सः ॥ ५५ ॥
 
105
 

 
इति सुखान्युचितानि हिमागमे समनुभूय मनोभवसन्निभः ।

शिशिरयामतीष्वपि रागवान् रमयितुं रमणीरुदयुङ्क्त सः ॥ ५६ ॥
 

 
शबलितान्यलिकागरुबिन्दुमिभिश्लदृशां रतिविभ्रमसूचकैः ।

नवलवङ्गतरुप्रसवास्तृतान्यभजतानुनिशं शयितानि सः ॥ ५७ ॥
 
परिल्

 
परिल
सन्नवलोध्ररजोभरच्छुरणपाण्डरगण्डतलैर्मुखः ।
खैः ।
मृगमदद्रवचारुविशेषकैर्मृगदृशो नृपतेरहरन् मनः ॥ ५८ ॥
 

 
अपदिशञ्छिशिरानिलमङ्गकैः पुलकितैर्नृपतेः सविधं गतः ।

मदनसंभृतघर्मपयः कर्णैर्भृशमलज्जत मुग्धवधूजनः ॥ ५९ ॥