This page has not been fully proofread.

104
 
MADHURÄVIJAYAM
 
अवितथं रजनीदिवसाधिपौ मधुरिपोर्नयने इति भाषितम् ।
 
स्फुटममुप्य यतः स्वपनात्ययादजनि तादृशमुन्मिपितं तयोः ॥ ४० ॥
 
कलशजम्य मुनेस्दयाज्जहुः कलुपतां सलिलानि महौजसः ।
सदुपदेशवशादिव शासितुस्तनुभृतां हृदयानि दयानि दयानिधेः ॥ ४१ ॥
 
विशदशारदनीरशारित वियदलक्ष्यत वीततटिङ्गणम् ।
प्रकटफेनकदम्बककर्वुरं जलभिवाम्बुनिधेर्गतविद्रुमम् ॥ ४२ ॥
 
नियतमम्बुदशाणनिवर्पणादतिमहस्कमहम्करमण्डलम् ।
अजनि वर्तविधोरपि वार्षिकैर्जलधरैः परिचौतमियाज्ज्वलम् ॥ ४३ ॥
 
जलदकालकलिस्फुरितां शनैः कटुपता प्रशमध्य कुणाः पुनः ।
घठयति स्म शरत् तटिनीसखीरुपनतैः कलहंसविलासिभिः ॥ ४४ ॥
 
सरसिजाकरसञ्चरदिन्दिराचरणहंसकनिक्कणमन्थरः ।
मदनमङ्गलतूर्यरर्वोऽभवन्मदकलः कलहंसकुलध्वनिः ॥ ४५ ॥
 
विकचपद्मविलोचनमात्मनो मुखमवेक्षितुमात्तकुतूहला ।
नियतमभ्रनिचोलकगर्नतः शरदकर्षदहर्पतिदर्पणम् ॥ ४६ ॥
 
विलसदुत्पललोचनशालिनीः स्फुरितचन्द्रमुखीः कुमुदस्मिताः ।
नरपतिः स्फुटतार कहारिणीर्निरविशद् दयिता ह्व यामिनीः ॥ ४७ ॥
 
परिणतेक्षुपरिच्युतमौक्तिकग्रथितहारमनोहरमूर्तिभिः
विशदमस्य यशो नृपतेः कलं कलमगोपवधूमिरगीयत ॥ ४८
 
दलदयुग्मदलोदरसौरभप्रसरपक्ष्मलिता वनवायवः ।
मुहुरधःकृतयन्तृनिवारणानकृषत क्षितिभृन्मदवारणान् ॥ ४९ ॥