This page has been fully proofread once and needs a second look.

104
 
MADHURÄVIJAYAM
 
अवितथं रजनीदिवसाधिपौपो मधुरिपोर्नयने इति भाषितम् ।
 

स्फुटममुप्ष्य यतः स्वपनात्ययादजनि तादृशमुन्मिपिषितं तयोः ॥ ४० ॥
 
कलशजम्

 
कलशजस्
य मुनेस्रुदयाज्जहुः कलुतां सलिलानि महौजसः ।

सदुपदेशवशादिव शासितुस्तनुभृतां हृदयानि दयानि दयानिधेः ॥ ४१ ॥
 

 
विशदशारदनीरशारितं वियदलक्ष्यत वीततटिङ्द्गणम् ।

प्रकटफेनकदम्बककर्वुबुरं जलभिमिवाम्बुनिधेर्गतविद्रुमम् ॥ ४२ ॥
 

 
नियतमम्बुदशाणनिवर्पघर्षणादतिमहस्कमहम्स्करमण्डलम् ।

अजनि वर्विधोरपि वार्षिकैर्जलधरैः परिचौधौतमियावोज्ज्वलम् ॥ ४३ ॥
 

 
जलदकालकलिस्फुरितां शनैः कटुपतालुषतां प्रशमध्य कुणाःय्य कृशाः पुनः ।

<error>
घठयति</error><fix>घटयति</fix> स्म शरत् तटिनीसखीरुपनतैः कलहंसविलासिभिः ॥ ४४ ॥
 

 
सरसिजाकरसञ्चरदिन्दिराचरणहंसकनिक्णमन्थरः ।

मदनमङ्गलतूर्यरर्वोऽभवन्मदकलः कलहंसकुलध्वनिः ॥ ४५ ॥
 

 
विकचपद्मविलोचनमात्मनो मुखमवेक्षितुमात्तकुतूहला ।

नियतमभ्रनिचोलकगर्तः शरदकर्षदहर्पतिदर्पणम् ॥ ४६ ॥
 

 
विलसदुत्पललोचनशालिनीः स्फुरितचन्द्रमुखीः कुमुदस्मिताः ।

नरपतिः स्फुटतार कहारिणीर्निरविशद् दयिता ह्व यामिनीः ॥ ४७ ॥
 

 
परिणतेक्षुपरिच्युतमौक्तिकग्रथितहारमनोहरमूर्तिभिः

विशदमस्य यशो नृपतेः कलं कलमगोपवधूमिरगीयत ॥ ४८
 

 
दलदयुग्मदलोदरसौरभप्रसरपक्ष्मलिता वनवायवः ।

मुहुरधःकृतयन्तृनिवारणानकृषत क्षितिभृन्मदवारणान् ॥ ४९ ॥