This page has not been fully proofread.

MADHURAVIJAYAM
 
अभिमते सति वारिधरोदये मधुरषड्जमनोहरगीतिभिः ।
गिरितटीपु मुहुः परिमण्डलीकृतकलापमनर्ति शिखण्डिभिः ॥ ३० ॥
 
पटुतटिद्गणकोणहताः पुरो रतिपतेः पटहा इव दिव्यका ।
निशमिताः स्फुटसाहसमध्वगैर्जलधरा वियदध्वनि दध्वनुः ॥ ३१ ॥
 
दलितकन्दलमुच्छूसदर्जुनं स्फुटकदम्बमुदञ्चितकैतकम् ।
मुदितचातकमुन्मुखबर्हिणं कतिचिदास दिनानि वनान्तरम् ॥ ३२ ॥
 
करतलैरिव गन्धवहैर्घनाः प्रहितकैत कपांसुविभूतयः ।
स्तनितहुँकृतिभिर्निरकासयन् नृपतियौवतमानमहाग्रहम् ॥ ३३ ॥
 
चलितबर्हिणचन्द्रक्रचिलितैः सुरभि गन्धिशिला मदशालिंभिः ।
विकचनीपवनैर्नृपतेर्मनो मुहरहारि बिहारमहीधरैः ॥ ३४ ॥
 
तमहरन्नइरत्ययम।ल तीकुसुमदन्तुरकुन्तलकान्तयः ।
परिहेितागरुधूपितवाससः सुतनवो मृगनाभिसुगन्धयः ॥ ३५ ॥
 
?
 
मणिमयानि गृहाणि समीरणाः कुटजकैतकसौरभवाहिनः ।
मदकलाश्च गिरः प्रचलाकिनां क्षितिपतेः स्मरदीपकतां ययुः ॥ ६६ ॥
 
नववधूपरिरम्भणदोहलान्यनुपदं निनदैः प्रतिपादयन् ।
अलभत क्षणदासु घनागमो नरपतेः किल नर्मसुहृत्पदम् ॥ ३७ ॥
 
तदनु पद्मवनीपरिहासकस्त्रिदशनाथशरासनतस्करः ।
भुजगभुइमुखमुद्रणमौरिकः समुदमृत् समयो जलदात्ययः ॥ ३८ ॥
 
103
 
विधुतकाशसटाभरभासुरः प्रकटितोरुजपारुणलोचनः ।
व्यघटयद् घनदन्तिघटाः स्फुरद्रविमखः शरदागमकेसरी ॥ ३९ ॥