This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
अभिमते सति वारिधरोदये मधुरषड्जमनोहरगीतिभिः ।

गिरितटीपु मुहुः परिमण्डलीकृतकलापमनर्ति शिखण्डिभिः ॥ ३० ॥
 

 
पटुतटिद्गणकोणहताः पुरो रतिपतेः पटहा इव <error>दिव्यका
</error><fix>दिव्यकाः</fix> ।
निशमिताः स्फुटसाहसमध्वगैर्जलधरा वियदध्वनि दध्वनुः ॥ ३१ ॥
 

 
दलितकन्दलमुच्छूछ्वसदर्जुनं स्फुटकदम्बमुदञ्चितकैतकम् ।

मुदितचातकमुन्मुखबर्हिणं कतिचिदास दिनानि वनान्तरम् ॥ ३२ ॥
 

 
करतलैरिव गन्धवहैर्घनाः प्रहितकैत कपांसुविभूतयः ।

स्तनितहुँहुंकृतिभिर्निरकासयन् नृपतियौवतमानमहाग्रहम् ॥ ३३ ॥
 

 
<error>
चलितबर्हिणचन्द्रक्रचित्रितैः</error><fix>चलितबर्हिणचन्द्रकचित्रितैः</fix> सुरभि गन्धिशिला मदशालिंलिभिः ।

विकचनीपवनैर्नृपतेर्मनो <error>मुहरहारि बि</error><fix>मुहुरहारि</fix> विहारमहीधरैः ॥ ३४ ॥
 

 
तमहरन्नरत्ययम।मा तीकुसुमदन्तुरकुन्तलकान्तयः ।
परिहेि

परिहि
तागरुधूपितवाससः सुतनवो मृगनाभिसुगन्धयः ॥ ३५ ॥
 
?
 

 
मणिमयानि गृहाणि समीरणाः कुटजकैतकसौरभवाहिनः ।

मदकलाश्च गिरः प्रचलाकिनां क्षितिपतेः स्मरदीपकतां ययुः ॥ ६६ ॥
 

 
नववधूपरिरम्भणदोहलान्यनुपदं निनदैः प्रतिपादयन् ।

अलभत क्षणदासु घनागमो नरपतेः किल नर्मसुहृत्पदम् ॥ ३७ ॥
 

 
तदनु पद्मवनीपरिहासकस्त्रिदशनाथशरासनतस्करः ।

भुजगभुङ्मुखमुद्रणमौभौरिकः समुदमृभूत् समयो जलदात्ययः ॥ ३८ ॥
 
103
 

 
विधुतकाशसटाभरभासुरः प्रकटितोरुजपारुणलोचनः ।

व्यघटयद् घनदन्तिघटाः स्फुरद्रविमुखः शरदागमकेसरी ॥ ३९ ॥