This page has been fully proofread once and needs a second look.

सलिलकेलिकुतूहलकुन्तलीकुचतटाहतिजातभयैरिव ।
अपसृतैरजनि प्रतिवासरं नृपतिगेहविहारसरोजलैः ॥ २० ॥
 
प्रचुरघर्मपयः कणजालिकागुणितमौक्तिकमण्डनशालिभिः ।
नवशिरीषवतंसमनोहरैः सुवदना वदनैस्तममोदयन् ॥ २१ ॥
 
दिनविरामविकस्वरमल्लिकाकुसुमसौरभहारिषु सुभ्रुवाम् ।
कचभरेषु निवेशयतो मुखं नरपतेर्न वितृष्णमभून्मनः ॥ २२ ॥
 
हिमगृहेषु निरन्तरशीकरप्रकरदर्शिततारकपङ्क्तिषु ।
दिवसतापमहापयदायतं वरवधूसहितो वसुधाधिपः ॥ २३ ॥
 
अथ दलन्निचुलद्रुममञ्जरीनिचयदर्शितचामरविभ्रमः ।
कृतनुतिः किल चातकयाचकैर्नृपतिमन्वगमज्जलदागमः ॥ २४ ॥
 
तत इतो विहरत्तटिदङ्गनाललितलास्यहरिन्मणिमण्डपैः ।
पटुमृदङ्गरवोपमगर्जितैर्निबिडमाविरभूयत वारिदैः ॥ २५ ॥
 
स्फुटतटित्तपनीयगुणोज्ज्वलैः पृथुपयः कणमौक्तिकसङ्गिभिः ।
अलिकदम्बकसच्छविभिर्दिशामसितकञ्चुलिकायितमम्बुदैः ॥ २६ ॥
 
हरितलोहितपाण्डुरराजत त्रिदशराजशरासनलेखिका ।
मरतकोपलविद्रुममौक्तिकैर्विरचिता रशनेव नभश्श्रियः ॥ २७ ॥
 
रुधिरबिन्दुनिभच्छविरन्वगात् क्षितितले हरिगोपपरम्परा ।
<flag>घनघरट्टपरस्परघट्टनक्षरतिरम्मदवह्निकणावलिम्</flag> ॥ २८ ॥
 
पटुपुरः पवनाधिगतभ्रमा जलमुचः करकोपलकैतवात् ।
सलिलराशिपयस्सहचूषितामुदवमन्निव मौक्तिकसंहतिम् ॥ २९ ॥