This page has been fully proofread once and needs a second look.

102
 
MADHURAVIJAYAM
 
सलिल
सलिलकेलि कुतुतूहलकुन्तलीकुचतटाहतिजातभयैरिव ।

अपसृतैरजनि प्रतिवासरं नृपतिगेहविहारसरोजलैः ॥ २० ॥
 

 
प्रचुरघर्मपयः कणजालिकागुणित मौक्तिक मण्डनशालिभिः ।

नवशिरीवतंसमनोहरैः सुवदना वदनैस्तममोदयन् ॥ २१ ॥

 
दिनविरामविकस्वरमल्लिकाकुसुमसौरभहारिषु सुश्भ्रुवाम् ।

कचभरेषु निवेशयतो मुखं नरपतेर्न वितृष्णमभून्मनः ॥ २२ ॥
 

 
हिमगृहेषु निरन्तरशीकरप्रकरदर्शिततारकपङ्क्तिषु ।

दिवसतापमहापयदायतं वरवधूसहितो वसुधाधिपः ॥ २३ ॥
 

 
अथ दलन्निचुलद्रुममञ्जरीनिचयदर्शितचामरविभ्रमः ।

कृतनुतिः किल चातकयाच कैर्नृपतिमन्वगमज्जलदागमः ॥ २४ ॥
 

 
तत इतो विहरत्तटिदङ्गनाललितलास्यहरिन्मणिमण्डपैः ।

पटुमृदङ्गरवोपमगर्जितैर्निबिडमाविरभूयत वारिदैः ॥ २५ ॥
 

 
स्कुफु तटित्तपनीयगुणोज्ज्वलैः पृथुपयः कणमौक्तिकसङ्गिभिः ।

अलिकदम्बक सच्छ विनिविभिर्दिशामसित कञ्चुलिकायितमम्बुदैः ॥ २६ ॥
 

 
हरितलोहितपाण्डुरराजत त्रिदशराजशरासनलेखिका ।

मरतकोपलविद्रुममौक्ति कैर्विरचिता रशनेव नभश्श्रियः ॥ २७ ॥
 

 
रुधिरबिन्दुनिभच्छविरन्वगात् क्षितितले हरिगोपपरम्परा ।

घनघरट्टपरस्परघट्टनक्षरतिरम्मद वह्निकणावलिम् ॥ २८ ॥
 

 
पटुपुरः पवनाधिगतभ्रमा जलमुचः करकोपलकैतवात् ।

सलिलराशिपयस्सहचूषितामुदवमन्निव मौक्तिकसंहतिम् ॥ २९ ॥