This page has not been fully proofread.

MADHURAVIJAYAM
 
परिसरद्वयचामरधारिणीकनककङ्कणरिणनिस्वनः
अशमयन्नृपतेर्बिरुदावलीमुखरमागधमण्डलॅवैखरीम्
 

 
॥ १० ॥
 
चतुरचङ्क्रमचारुसरस्वतीचरणनूपुरशिञ्जितमञ्जुलैः ।
भृशमरज्यत कम्पमहीपतिः सदसि सत्कविसूक्तिसुधारसैः ॥ ११ ॥
 
तरलता झुलिताडित बल्लकीनिरततान निरन्तरितैः स्वरैः ।
जगुरमुष्य जगत्प्रथितं यशो गमकमङ्गितरङ्गितमङ्गनाः ॥ १२ ॥
 
उचिततालमुदञ्चितविभ्रमं चतुरचारिचमत्कृतसौष्टवम्
मुहुरसावबरोधमृगीदृशां मुखरसोज्ज्वलमैक्षत नर्तनम् ॥ १३ ॥
 
इततरक्षु परिक्षतसैरिभ मृदितर निवृतिसुकरम !
ग्लपितखगि गृहीतमतङ्गजं बनमसौ मृगयासु मुहुर्व्यधात् ॥ १४ ॥
 
अथ सुगन्धिहिमान् त्र्यजनानिलान् मृगदृशः कृतचन्दनचर्चिकाः ।
शशिमतीच निशाः प्रियतां नयन् नरपतेरुदऋतुरूष्मल ॥ १५ ॥
 
विकचपाटलगन्धिसमीरणैः सलिलकेलिपरायणयौवतैः ।
रजनिदैर्घ्यहरैरधिकोल्लसद्रविमहोभिरहोभिरभूयत ॥ १६ ॥
 
नियतिनिर्मितदक्षिणदिग्वधूविरहतापनिवारणवाञ्छया
अहिमभानुरहन्यहनि ध्रुवं हरितमाप हिमाचलशीतलाम् ॥ १७ ॥
 
परुषतापविशेषपरिस्खलद्रथतुरङ्गममन्दगताविव ।
अहिमधाम्नि रथाङ्गसुखावहामहरगा[हत दें" ]र्ध्यवती दशाम् ॥ १८ ॥
 
101
 
सरसचन्दनधारिषु मौक्तिकत्रिसरनिर्झरहारिपु सुभ्रुवाम् ।
कुचतटेषु निदाघनिपीडितो धृतिमधात् कुसुमायुधकुञ्जरः ॥ १९ ॥