This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
परिसरद्वयचामरधारिणीकनककङ्कणरिङ्खणनिस्वनः

अशमयन्नृपतेर्बिरुदावलीमुखरमागधमण्डलॅवैखरीम्
 

 
॥ १० ॥
 

 
चतुरचङ्क्रमचारुसरस्वतीचरणनूपुरशिञ्जितमञ्जुलैः ।

भृशमरज्यत कम्पमहीपतिः सदसि सत्कविसूक्तिसुधारसैः ॥ ११ ॥
 

 
तरलता झुङ्गुलिताडितल्लकीनिरततान निरन्तरितैः स्वरैः ।

जगुरमुष्य जगत्प्रथितं यशो गमकङ्गितरङ्गितमङ्गनाः ॥ १२ ॥
 

 
उचिततालमुदञ्चितविभ्रमं चतुरचारिचमत्कृतसौष्वम्

मुहुरसावरोधमृगीदृशां मुखरसोज्ज्वलमैक्षत नर्तनम् ॥ १३ ॥
 

 
ततरक्षु परिक्षतसैरिभं मृदितर निवृतिसुकरम !
ङ्कु निषूदितसूकरम ।
ग्लपितखड्गि गृहीतमतङ्गजं नमसौ मृगयासु मुहुर्व्यधात् ॥ १४ ॥
 

 
अथ सुगन्धिहिमान् त्र्व्यजनानिलान् मृगदृशः कृतचन्दनचर्चिकाः ।

शशिमतीश्च निशाः प्रियतां नयन् नरपतेरुदभूद् ऋतुरूष्मलः ॥ १५ ॥
 

 
विकचपाटलगन्धिसमीरणैः सलिलकेलिपरायणयौवतैः ।

रजनिदैर्घ्यहरैरधिकोल्लसद्रविमहोभिरहोभिरभूयत ॥ १६ ॥
 

 
नियतिनिर्मितदक्षिणदिग्वधूविरहतापनिवारणवाञ्छया

अहिमभानुरहन्यहनि ध्रुवं हरितमाप हिमाचलशीतलाम् ॥ १७ ॥
 

 
परुषतापविशेषपरिस्खलद्रथतुरङ्गममन्दगताविव ।

अहिमधाम्नि रथाङ्गसुखावहामहरगा[हत दें" दै*]र्ध्यवतीघ्यवतीं दशाम् ॥ १८ ॥
 
101
 

 
सरसचन्दनधारिषु मौक्तिकत्रिसरनिर्झरहारिपुषु सुभ्रुवाम् ।

कुचतटेषु निदाघनिपीडितो धृतिमधात् कुसुमायुधकुञ्जरः ॥ १९ ॥