Proofing

✦

This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
परिसरद्वयचामरधारिणीकनककङ्कणरिङ्खणनिस्वनः
।
अशमयन्नृपतेर्बिरुदावलीमुखरमागधमण्डलॅलवैखरीम्
 
।
 
॥ १० ॥
 

 
चतुरचङ्क्रमचारुसरस्वतीचरणनूपुरशिञ्जितमञ्जुलैः ।

भृशमरज्यत कम्पमहीपतिः सदसि सत्कविसूक्तिसुधारसैः ॥ ११ ॥
 

 
तरलता झुङ्गुलिताडित बवल्लकीनिरततान निरन्तरितैः स्वरैः ।

जगुरमुष्य जगत्प्रथितं यशो गमकमभङ्गितरङ्गितमङ्गनाः ॥ १२ ॥
 

 
उचिततालमुदञ्चितविभ्रमं चतुरचारिचमत्कृतसौष्टठवम्
।
मुहुरसावबवरोधमृगीदृशां मुखरसोज्ज्वलमैक्षत नर्तनम् ॥ १३ ॥
 
इ

 
ह
ततरक्षु परिक्षतसैरिभभं मृदितर निवृतिसुकरम !
ङ्कु निषूदितसूकरम ।
ग्लपितखड्गि गृहीतमतङ्गजं बवनमसौ मृगयासु मुहुर्व्यधात् ॥ १४ ॥
 

 
अथ सुगन्धिहिमान् त्र्व्यजनानिलान् मृगदृशः कृतचन्दनचर्चिकाः ।

शशिमतीश्च निशाः प्रियतां नयन् नरपतेरुदभूद् ऋतुरूष्मललः ॥ १५ ॥
 

 
विकचपाटलगन्धिसमीरणैः सलिलकेलिपरायणयौवतैः ।

रजनिदैर्घ्यहरैरधिकोल्लसद्रविमहोभिरहोभिरभूयत ॥ १६ ॥
 

 
नियतिनिर्मितदक्षिणदिग्वधूविरहतापनिवारणवाञ्छया

अहिमभानुरहन्यहनि ध्रुवं हरितमाप हिमाचलशीतलाम् ॥ १७ ॥
 

 
परुषतापविशेषपरिस्खलद्रथतुरङ्गममन्दगताविव ।

अहिमधाम्नि रथाङ्गसुखावहामहरगा[हत दें" दै*]र्ध्यवतीघ्यवतीं दशाम् ॥ १८ ॥
 
101
 

 
सरसचन्दनधारिषु मौक्तिकत्रिसरनिर्झरहारिपुषु सुभ्रुवाम् ।

कुचतटेषु निदाघनिपीडितो धृतिमधात् कुसुमायुधकुञ्जरः ॥ १९ ॥