2023-02-17 20:22:24 by ambuda-bot
This page has not been fully proofread.
अथ पञ्चमः सर्गः ।
अथ स तत्र महीतलमण्डने मरतकाहयभाजि महापुरे ।
चिरचितस्थितिरप्रतिशासनं जगदशेपमरक्षदनाकुलम् ॥ १ ॥
अरिबलापहमाश्रितनन्दनं सुमनसां मनसः प्रियदायिनम् ।
वसुमतीमवतीर्णमिवापरं हरिममंसत तं सततं प्रजाः ॥ २ ॥
पथितशक्तिरवासफलोदयः प्रगुणयन् पणबन्धमुखान् गुणान् ।
निपुणधीर्निरपायमुपायचित् प्रभुरभुङ्क्त नवां नयसंपदम् ॥ ३ ॥
असुहृदां सुहृदामित्र सण्डलेप्वजनि तेन न किञ्चिदलक्षितम् ।
प्रहितचारगणेन विवस्वता प्रसृतदीधितिना भुवनेप्विव ॥ ४ ॥
करपरिग्रहमाचरति प्रगौ मृदुतरं मुदितप्रकृतिर्मही ।
विविवसस्य विशेषनिरन्तरा पुलकितेव भृशं समलक्ष्यत ॥ ५ ॥
द्रढिमशालिनि भोगमनोहरे कटकधारिणि दानगुणो[जिते*]।
नृपतिदोष्णि निवासमुपेत्य भूरलघयत् प्रथमास्पदगौरवम् ॥ ६ ॥
नरपतेः प्रतिहारमहीं मुहुर्विजयदन्तिमदोदकपङ्किलाम् ।
क्षितिभुजां भुजभूषणघट्टनप्रसृमरो मणिरेणुरशोषयत् ॥ ७ ॥
अहरहर्नृपतेः पदपीठिकातट
समुरलिकस्थलैः ।
पुनरिवार्पितभाग्यमयाक्षरै रजनि वैरमुचामवनीभुजाम् ॥ ८ ॥
मगधमालवसे (म?बु) णसिंहलद्रमिलकेरलगौ (ल?ड) मुखैर्नृपैः ।
अवसर।प्ति परैरनुवासरं रुरुधिरे प्रतिहारभुवः प्रभोः ॥ ९ ॥