This page has been fully proofread once and needs a second look.

अथ पञ्चमः सर्गः ।
 

 
अथ स तत्र महीतलमण्डने मरतकाह्वयभाजि महापुरे ।
चि

वि
रचितस्थितिरप्रतिशासनं जगदशेमरक्षदनाकुलम् ॥ १ ॥
 

 
अरिबलापहमाश्रितनन्दनं सुमनसां मनसः प्रियदायिनम् ।

वसुमतीमवतीर्णमिवापरं हरिममंसत तं सततं प्रजाः ॥ २ ॥
 

 
प्र
थितशक्तिरवाप्तफलोदयः प्रगुणयन् पणबन्धमुखान् गुणान् ।

निपुणधीर्निरपायमुपायचिवित् प्रभुरभुङ्क्त नवां नयसंपदम् ॥ ३ ॥
 

 
असुहृदां सुहृदामित्र सव मण्डलेप्ष्वजनि तेन न किञ्चिदलक्षितम् ।

प्रहितचारगणेन विवस्वता प्रसृतदीधितिना भुवनेप्ष्विव ॥ ४ ॥
 

 
करपरिग्रहमाचरति प्रगौभौ मृदुतरं मुदितप्रकृतिर्मही ।

विविसस्य विशेषनिरन्तरा पुलकितेव भृशं समलक्ष्यत ॥ ५ ॥
 

 
द्रढिमशालिनि भोगमनोहरे कटकधारिणि दानगुणो[र्जिते*]।

नृपतिदोष्णि निवासमुपेत्य <error>भूरलघयत्</error><fix>भूरलंघयत्</fix> प्रथमास्पदगौरवम् ॥ ६ ॥
 

 
नरपतेः प्रतिहारमहीं मुहुर्विजयदन्तिमदोदकपङ्किलाम् ।

क्षितिभुजां भुजभूषणघट्टनप्रसृमरो मणिरेणुरशोषयत् ॥ ७ ॥
 

 
अहरहर्नृपतेः पदपीठिकातट
समुल्लिखितैरलिकस्थलैः ।

<error>
पुनरिवार्पितभाग्यमयाक्षरै रजनि </error><fix>पुनरिवार्पितभाग्यमयाक्षरैरजनि</fix> <flag>वैरमुमृचामवनीभुजाम्</flag> ॥ ८ ॥
 

 
मगधमालवसे (म?बुवु) णसिंहलद्रमिलकेरलगौ (ल?ड) मुखैर्नृपैः ।

अवसर।प्ति राप्तिपरैरनुवासरं रुरुधिरे प्रतिहारभुवः प्रभोः ॥ ९ ॥