This page has not been fully proofread.

MADHURAVIJAYAM
 
कक्ष्याविभक्तवपुषोश्चारीभिश्चरतोस्तयोः ।
पश्यद्भिः सौष्ठवं देवैरनिमेषत्वमादृतम् ॥ ८० ॥
 
अन्तर्चिन्चितचम्पेन्द्रा कम्पेन्द्रस्यासिपुत्रिका ।
अप्सरोभ्यः पतिं दातुमन्तर्वली किलाभवत् ॥ ८१ ॥
 
अथ वञ्चित[तत् ]खड्गप्रहारः कम्पभूपतिः ।
अकरोदसिना चम्पनमरेन्द्रपुरातिथिम् ॥ ८२ ॥
 
99
 
इत्थं सङ्गरनूनि चम्पनृपतिं नीत्वा कथाशेषतां
श्रीमान् कम्पनृपेश्वरो जनयितुः संप्राप्तवाञ्छासनम् ।
काञ्चीन्यस्तजयप्रशस्तिरमिथस्संकीर्णवर्णाश्रमं
 
नीत्या नित्यनिरत्ययर्द्धिरशिषत् तुण्डीरभूमण्डलम् ॥ ८३ ॥
 
इति [श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीर*]कम्परायचरिते
 
चतुर्थः सर्गः ।