This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
कक्ष्याविभक्तवपुषोश्चारीभिश्चरतोस्तयोः ।

पश्यद्भिः सौष्ठवं देवैरनिमेषत्वमादृतम् ॥ ८० ॥
 

 
अन्तर्चिन्चिबिम्बितचम्पेन्द्रा कम्पेन्द्रस्यासिपुत्रिका ।

अप्सरोभ्यः पतिं दातुमन्तर्वलीत्नी किलाभवत् ॥ ८१ ॥
 

 
अथ वञ्चित[तत् ]खड्गप्रहारः कम्पभूपतिः ।

अकरोदसिना चम्पमरेन्द्रपुरातिथिम् ॥ ८२ ॥
 
99
 

 
इत्थं सङ्गरनूमूर्ध्नि चम्पनृपतिं नीत्वा कथाशेषतां

श्रीमान् कम्पनृपेश्वरो जनयितुः संप्राप्तवाञ्छासनम् ।

काञ्चीन्यस्तजयप्रशस्तिरमिथस्संकीर्णवर्णाश्रमं
 

नीत्या नित्यनिरत्ययर्द्धिरशिषत् तुण्डीरभूमण्डलम् ॥ ८३ ॥
 

 
इति [श्रीगङ्गादेव्या विरचिते मधुराविजय-

नाम्नि वीर*]कम्परायचरिते
 

 
चतुर्थः सर्गः ।