This page has not been fully proofread.

b
 
98
 
MADHURAVIJAYAM
 
4
 
अथ प्रववृत्ते युद्धं सैन्ययोरुभयोरपि ।
पतदुत्पतदस्त्रांशुज्वलितोर्वीनभस्स्थलम् ॥ ७० ॥
 
भ्रश्यत्त।लफलाकारैः प्राकाराद् बाणपातितैः । ।
रणश्रीकन्दुकभ्रान्तिर्विदधे वीरमूर्धभिः ॥ ७१ ॥
अग्रे निपेतुर्नृपतेर्मावाणो यन्त्रविच्युताः ।
दुर्गेणातरदानार्थं दूताः संप्रेषिता इव ॥ ७२ ॥
 
धानुष्व मुक्त बाण रिज्वलितोर्ध्व र हावलिः ।
विजयारात्रिकं तस्य मूर्भेवाद्रिरधारयत् ॥ ७३ ॥
 
विन्यस्तकुन्तनिश्रेणीश्रेणिनिर्वीरपुङ्गवैः
1:1
आक्रान्तसालशृङ्गारारात महीधरः ॥ ७४ ॥
 
अश्रोद्भटभटक्ष्वेडागलितभ्रूणगाणिम् ।
निहास्रनदीमज्जज्जनताशास्यजीवितम् ॥ ७५ ॥
 

 
अलब्धनिर्गमं दुर्गमासीदेवमुपद्रुतम् ॥ ७६ ॥
 
(युग्मकम् ।)
 
......
 
निर्जगाम निजागाराच्चम्पक्ष्मापोऽपि कोपनः ।
 
कृपाणपाणिर्वल्मीकाजिह्वाल इव जिह्मगः ॥ ७७ ॥
 
अहंपूर्विकया वीरेष्वमितो युद्धकाङ्क्षिषु ।
प्रत्यग्रहीन्महीपालश्चम्पं सिंह इव द्विपम् ॥ ७८ ॥
तौ निकुञ्चितपूर्वाङ्गौ निश्चलाक्षौ कृपाणिनौ ।
उचितस्थानकावास्तां चित्रन्यस्ताविव क्षणम् ॥ ७९ ॥