This page has been fully proofread once and needs a second look.

N
 
MADHURAVIJAYAM
 
वेतण्डशुण्डाहर्म्याग्रमास्थिताः सचमत्क्रियम् ।
 

आद्रियन्त कबन्धानां (न?र)क्तं नक्तंचरस्त्रियः ॥ ६० ॥
 

 
वीराः कुञ्जरकुम्भेषु शायिनः शत्रुसायकैः ।
प्रा

प्राबु
ध्यन्त सुरस्त्रीणां कुचकुम्भेषु तत्क्षणात् ॥ ६१ ॥
 

 
ततः कम्पनरेन्द्रस्य भटैर्भुजबलोत्कटः ।

पलायत पराभूता द्रमिडेन्द्रवरूथिनी ॥ ६२ ॥
 

 
उल्लङ्घ्योल्लङ्घ्य श्राधावद्भिर्भीत्या भ्रंशितमायुवम् ।
धम् ।
प्रायः प्रथनसंन्यासे शपथः कैश्चिदादधे ॥ ६३ ॥
 

 
हतानुकारिणः केचित् क्षितौ निपतितास्ततः ।

क्रोष्टुर्येन धावन्तः कर्णाटान् पर्यहासयन् ॥ ६४ ॥
 

 
विक्षेप्तुं विस्मृतैश्चर्मफलकैर्निर्मितप्लवाः ।
सृ

मृ
षैव केचिदतरन् मृगतृष्णातरङ्गिणी: ॥ ६५ ॥
 

 
छायामेवात्मनः केचिद् धावन्तो भीतिभाविताः ।

अरातिशङ्कया कष्टं दष्टाङ्गुलि ववन्दिरे ॥ ६६ ॥
 

 
अथ तस्य पुरीमेव नीत्वा शिबिरतां नृपः ।

अचलं राजगम्भीरमस्रुन्ध द्विषदाश्रितम् ॥ ६७ ॥
 

 
तद्दुन्दुभिप्रतिध्वानमुखैरैः कन्दरामुखैः ।

भयादमन्दमाक्रन्द मकार्षीदिव पर्वतः ॥ ६८ ॥
 

 
प्रवाताभिमुखाधूतैः पताकापाणिपल्लवैः ।

आरोहणाय राजेन्द्रमाजुहावेव भूधरः ॥ ६९ ॥
 
97